SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ॥२२३॥ ka सोक्खा, लहंति मोक्खंपि खीणरया ।। १३ ।। इत्यादिधर्मदेशनां श्रुत्वा राजा संसारासारतां विभाव्य मोक्षकरसिकान्तःकरणः श्रीगुरून्नत्वा भगवन् ! अद्य का तिथिः? इति पप्रच्छ । श्रीगुरुः सहसाऽमावास्यादिने पूर्णिमेति प्राह । अत्र देवबोधिलब्धावकाशो मिथ्यादृग् बाह्यमित्रमप्यान्तरधर्मशत्रुराह-अहो! कलिकालसर्वज्ञः श्रीहेमसूरिर्यदद्य पूर्णिमां कथयति तदा लोकानां भाग्येन पूणिमैव भविष्यतीत्युपहासगर्भ तद्वचः श्रुत्वा गुरुः प्रोचे-सत्यमेतद्भवद्वचः। तेनोक्तम् , कोऽत्र प्रत्ययः ? श्रीगुरुभिरुक्तम् , अहो ! केयं भवतश्चातुरी? चन्द्रोदय एव प्रत्ययः, इति श्रुत्वा सर्वेऽपि विस्मयस्मेराः परस्परमाहुः, किमित्थमपि भविष्यति ? ततो राजा विस्मितस्वान्तदेवबोधिद्वासप्ततिसामन्तादिपरिवृतो राजसभामागत्य क्व चन्द्रोदयों भविष्यति ? इति परिज्ञानाय घटीयोजनगामिकरभ्यारूढान् निजपुरुषान् पूर्वस्यां दिशि प्राहिणोत् । ततः श्रीहेमाचार्येभ्यः पूर्वप्रदतवरसिद्धचक्रसुरप्रयोगेण पूर्ववत्पूर्वस्यां सन्ध्यासमये चन्द्र उदयं कृत्वा निखिलां रात्रि ज्योत्स्नामयीं विधाय चतुरो यामान् गगनमण्डलमवगाह्य सर्वलोकसमक्षं प्रत्यूषे पश्चिमायां गतोऽस्तगमात् । प्रातस्तेऽपि पूर्वप्रहितपुरुषाः समागत्य तथैव प्रोचुः । सर्वेषां महान् विस्मयः । अहो! श्रीगुरूणां कापि महती शक्तिः, अहो! जैनानां कोऽपि महिमा लोकोत्तर इति लोकोक्तिः सर्वत्राजायत । अथ देवबोधेस्तदेव च्छलवचनं स्मरन् श्रीगुरून् राजा पप्रच्छ । भगवन् ! सत्स्वपि बहुदर्शनेषु ब्राह्मणानां कस्माजिनधर्मे महान् विद्वेषः ? । गुरु:--राजन् ! पूरा युगादौ प्रथमजिनः परोपकाराय विनी- IX||२२ तासन्ने पुरिमतालपुरे समवसृतः । भरतचक्री प्रमुदितो जिनागमज्ञापकाय सार्द्ध द्वादशस्वर्णकोटिप्रीतिदानं दत्त्वा विवि
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy