SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कुमारपालन प्रबन्धः ॥२१०॥ नववाससएहिं नवुत्तरेहि रयणेण रेवयगिरिमि । संठवियं मणिबिम्बं, कंचणभवणाउ नेऊणं ॥ १ ॥ श्रीब्रह्मेन्द्रकृतेयं, श्रीनेमेतिरमरगणपूज्या । विंशतिसागरकोटिः, स जयति गिरिनारगिरिराजः ।। २ ।। श्रीचौलुक्यभूप ! वामनावतारे हि वामनेन श्रीरैवते श्रीनेमिनाथाने बलिबन्धनार्थं तपस्तेपे इति लौकिका अपि प्राहः । यथा भवस्य पश्चिमे भागे, वामनेन तपः कृतम् । तेनैव तपसाऽऽकृष्टः, शिवः प्रत्यक्षतां गतः ।। १ ।। पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः । नेमिनाथशिवेत्युच्च म चक्रेऽस्य वामनः ।। २ ।। कलिकाले महाघोरे, कलिकल्मषनाशनः । दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ।। ३ ।। उज्जयन्तगिरी रम्ये, माघे कृष्णचतुर्दशी । तस्यां जागरणं कृत्वा, सञ्जातो निर्मलो हरिः ।। ४ ।। प्रभासोक्तमेतत् ।। एवं श्रीरैवतमहिमाद्वैतश्रवणसहस्रगुणोत्साहितः सर्वप्रकारोत्सवैरात्मानं कृतार्थयन् बहुदिनान्यस्थात् ।। स एव जगडः प्राग्वत्तादृग् माणिक्यमद्भुतम् । मालाक्षणे पुनर्दत्त्वा, जग्राहेन्द्रपदं सुधीः ।। १।। तीर्थोचिताः क्रियाः सर्वाः, विधाय विधिना नृपः । विज्ञप्तिमतनोदेवं, देवस्याग्रे कृताञ्जलिः ।। २ ॥ तथा प्रसीद विश्वेश!, त्वदेकशरणे मयि । यथा त्वद्धयानयोगेन, मन्मनस्त्वन्मयं भवेत् ।। ३ ।। ततो मत्वा दुरारोह, गिरि शृङ्खलपद्यया । सुराष्ट्रादण्डनाथेन, श्रीमालिज्ञातिमौलिना ।। ४॥ राणश्रीआम्बदेवेन, जीर्णदुर्गदिगाश्रिताम् । पद्यां सुखावहां नव्यां, श्रीचौलुक्यो व्यदीधपत् ।। ५ ।। ततः कतिपयप्रयाणकैर्देवपत्तने श्रीचन्द्रप्रभयात्रां कृतवान । तत्रापि जगड एवेन्द्रमालां जग्राह सपादकोटिमूल्यमाणिक्येन । तेन च जगडचरित्रेण जगतिशायिना चमत्कृतः श्रीकुमारभूपः समग्रसङ्गसमक्षं तमभ्यधात् ।। सपादकोटिमू ॥२१०॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy