________________
॥ २०९ ॥
XXXXXXX
स्वामिनोक्तम् -- आगामि चतुर्विंशतिकायां द्वाविंशतितमजिनस्य नेमेर्वारके त्वं केवली भावी इति सम्यग् ज्ञात्वा तस्मिन् भवे श्रीसागरजिनपार्श्वे व्रतं गृहीत्वा तपस्तप्त्वा मृत्वा च ब्रह्मलोके दशसागरायुरिन्द्रः समुत्पन्नः । तत्र च स्थितेन तेनाधना पूर्वभवं ज्ञात्वा वज्रमयीं मृत्तिकामानीय पूजार्थं श्रीनेमिबिम्बं कृतम् । स्वर्गे दशसागराणि यावत् पूजितम् । आयुष्प्रान्ते श्रीनेमेरुत्पत्तिस्थाने श्रीरैवतांचले दीक्षाज्ञाननिर्वाणकल्याणिकत्रयस्थानं विलोक्य स्वर्गात् श्रीनेमिप्रतिमां गृहीत्वा श्रीवते वज्रेणोत्कीर्य भूमिमध्ये पूर्वाभिमुखः प्रासादः कृतः । तत्र चैत्यें रूप्यमये गर्भगृहत्रयं कृत्वा रत्नमणिसुवर्णमयबिम्बत्रयं स्थापितम् । तदग्रे काञ्चनवलानकं कृत्वा वज्रमृत्तिकामयं बिम्बं स्थापितम् । यदुक्तम्—
शिखरोपरि यत्राम्बावलोकनशिरस्तु रङ्गमण्डपके । शम्बो बलानकेऽसौ सिद्धिविनायकः प्रतीहारः ॥ १ ॥
ततः स इन्द्रः स्वर्गाच्च्युत्वा बहुसंसारं भ्रान्त्वा श्रीनेमितीर्थे पल्लिमहापल्लिदेशे क्षितिसारपुरे नरवाहननृपजीवः पुण्यसार - नामा नृपोऽजनि । अन्यदा तत्र पुरे श्रीनेमिराजगाम । राजा वन्दितुं ययौ । तत्र देशनां श्रुत्वा श्रावकीबभूव । श्रीनेमिपार्श्वे पूर्वभववृत्तान्तं ज्ञात्वा रैवतके गत्वाऽऽत्मकृतं तद्विम्बं संपूज्य नत्वा स्वपुरे गत्वा सुतं राज्ये निवेश्य श्रीनेमिपार्श्वे व्रतं जग्राह । तपसा केवलं प्राप्य मोक्षं गतः । श्रीनेमे रैवताचले कल्याणिकत्रयं जातम् । ततश्चैत्यं लेप्यमयं च बिम्बं लोके पूज्य - मानं जातम् । श्रीनेमिनिर्वाणान्नवोत्तरनवशतवर्षैः काश्मीरदेशाद्रत्नश्रावकः कल्पप्रमाणेन रैवतगिरौ श्रीनेमियात्रायै समायातः । हर्षोत्कर्षवशेन जलपूर्णैः कलशैः स्नात्रं कृतम् । जलेन बिम्बं गलितम् । रत्नश्रावकेण तीर्थविनाशं दृष्ट्वा मासद्वयमुपवासाः कृताः । ततोऽम्बिकाऽऽदेशेन काञ्चनबलानकोद्वज्रमयं बिम्बं समानीय स्थापितम् । यतः -
।।२०९ |