SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ।१८५॥ दीपञ्जनमनावृतं निरुपमाभोगद्धिरत्नादिभिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ॥ १ ॥ न तु जिनबिम्बानां पूजादिकरणेन कश्चिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तुष्यन्ति वा, न चाऽतृप्ताऽतुष्टाभ्यो। देवताभ्यः फलप्राप्तिः, नैवम् , चिन्तामण्यादिभ्योऽतृप्तातुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तम् अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ? ।। १ ।। उवगाराऽभावंमिवि, पुजाणं पूयगस्स उवगारो । मताइसरणजलणादिसेवणे जह तहेहंपि ।। २ ।। एष स्वकारितानां बिम्बानां तावत्पूजादिविधिरुक्तः । अन्यकारितानामप्यकारितानां च शाश्वतप्रतिमानां यथार्ह पूजनवन्दनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्रतिमाः भक्तिकारिताः स्वयं परेण वा चैत्येषु याः कारिताः । इदानीमपि मनुष्यादिभिविधाप्यन्ते । मङ्गल्यकारिताया गृहेषु गृहद्वारपट्टेषु मङ्गलाय कार्यन्ते । शाश्वत्यस्तु अकारिता एव, अधस्तिर्यगू लोकावस्थितेषु जिनभवनेषु प्रवर्तन्ते इति । नहि लोकत्रयेऽपि तत्स्थानमस्ति यन्न पारमेश्वरीभिः प्रतिमाभिःपवित्रितमिति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति । _____ ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितं प्रतिभासते, षड़जीवनिकायविराधनाहेतुत्वात्तस्य, भूमीखननदलवाटकानयनगर्तापूरणेष्टिकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति, उच्यते--यः आरम्भपरिग्रहप्रसक्तः स कुटम्बपरिपालननिमित्तं धनोपार्जनं करोति तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययःश्रेयानेव । यतः ॥१८५।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy