SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५१ ।। ****** इत्थमा भटमनुमोद्य गुरुक्षमापती यथागतं तथा जग्मतुः । अथ तत्र गतानां प्रभूणां श्रीमदाभटस्याकस्मिक देवीदोषात्पर्यन्तदशां गतस्य प्रच्छन्नविज्ञप्तिकायामुपागतायां तत्कालमेव तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः संजातः, इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमात्रादलंकृतभृगुपुरपरिसरभुवः प्रभवः सैन्धवीं देवीमनुनेतुं कृतकायोत्सर्गाः, तया जिह्वाकर्षणादवगणनास्पदं नीयमाना उदूखले शालितन्दुलान् प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुसलप्रहारे प्राक् प्रासादप्रकम्पः, द्वितीयप्रहारे दीयमाने देवीमूर्तिरेव स्वस्थानादुत्पत्य वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्षोच्चरन्ती प्रभोश्चरणयोनिपपात । इत्थमनवद्य विद्याबलात्तन्मूलानां मिथ्यादृग्व्यन्तरामरीणां दोषं निगृह्य श्रीसुव्रतप्रासादमासेदिवांसः ॥ संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कुराः, विश्वालम्बनयष्टयः परमतव्यामोहकेतुद्गमाः । किं वाऽस्माकमनोमतङ्गजदृढालानै कलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयेाः श्रीसुव्रतस्वामिनः ॥ १ ॥ इतिस्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाभटमुल्लाघस्नानेन पटूकृत्य यथागतमगुः । श्रीमदुदयनचैत्ये शकुनिकाविहारे राज्ञो घटीगृहे च कौङ्कणनृपतेः कलशत्रितयं न्यास्थत् श्रीमानाम्रभटो राजपितामहः । अथैकदा मार्गिताऽदत्तैकाऽपूर्वप्रच्छादवस्त्रनिमित्तसंजाताभिमानवशात् सपादलक्षं प्रति सैन्यं सञ्जीकृत्य श्रीबाहडाम्बडानुजन्मा श्रीचाहङनामा मन्त्री दानशौण्डतया भृशं दूषितोऽपि बाढमनुशिष्य श्रीकुमारपालदेवेन सेनापतिश्चक्रे । तेन प्रयाणद्वित्रयानन्तरमस्तोकमथलोकं मिलितमालोक्य कोशाध्यक्षाल्लक्षद्रव्ये याचिते सति नृपादेशात्तस्मिन्नददाने तं कशा ****** ।। १५१ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy