SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ कुमारपाल | ६ || ********** स चातुलबलपराक्रमः प्रतापाक्रान्तसकलसीमालभूपाल: स्वबलेन लाषाकं नृपं जितवान् । तत्स्वरूपं यथा परंमारवंशे कीर्तिराजसुता कामलता । शैशवे सखीभिः सह रममाणाऽन्धकारे प्रासादस्तम्भान्तरितं फूलहडाभिषं पशुपालं वृत्त्वा (ता) । ततः कतिपयैर्वर्षेः प्रधानवरेभ्यो दीयमाना प्रतिव्रता व्रतपालनाय तमेवोपयेमे । तयोः पुत्रो लाषाकः । स च कच्छाधिपः सर्वतोऽप्यजेयः । एकादशकृत्वस्त्रासितमूलराजसैन्यः । एकदा कपिलकोटे स्थितो मूलराजेन रुद्ध द्वन्द्वयुद्ध कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्ये दिने निजकुलदैवतमनुस्मृत्य ततोऽवतीर्णदैवतकलया लापाको निजघ्ने । तस्याजौ भूपतिस्य वातचलिते श्मश्रुणि पदं स्पृशन् मूलराजस्तज्जनन्या पतिव्रतातीव्रव्रतनिष्ठया लूतारोगेण भवद्वंश्या विनश्यन्तु इति शप्तः । मूलराजः पञ्चपञ्चाशद्वर्षाणि राज्यं कृत्वा एकदा सान्ध्यनीराजनान्तरं ताम्बूले कृमि"दर्शनाद्गजादिदानं दत्वा संन्यासपूर्वं दक्षिणचरणाङ्गुष्ठे वह्निमोचनं कृत्वाऽष्टादशप्रहरैः परलोकमगात् । ततो वर्षत्रयोदशं १३ चामुण्डराजराज्यम् । षण्मासान् ६ वल्लभराजराज्यम् । एकादश वर्षाणि ११ षण्मासान् ६ दुर्लभराजराज्यम् । स स्वपुत्रं श्री भीमं राज्ये न्यस्य स्वयं वैराग्यवान् तीर्थयात्रां कुर्वन् मालवके गतः । श्रीमुञ्जन छत्रादिकं मुश्व युद्ध वा कुरु, इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कार्पटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् । तत्स्वरूपं भीमेन ज्ञातम् । ततः प्रभृति राजद्वयविरोधः । भीमस्य वृद्धा राज्ञी बकुलदेवी तस्याः पुत्रः क्षेमराजः, द्वितीया उदयमती तस्याः सुतः कर्णदेवः । तौ परस्परं प्रीतिभाजौ यथा रामलक्ष्मणौ । अन्यदा कर्णमात्रा तोषितेन भीमेन घोरपि कर्णस्य राज्यं प्रतिपन्नम् । द्विचत्वारिंशद्वर्षाणि राज्यं कृत्वा भीमे दिवं गते सति- प्रबन्धः ॥६॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy