________________
उपदेशपदः मनःपरिणामं यतीनामपि-लाभालाभसुखासुखादिषु तुल्यतया प्रवृत्तचित्तानां, कथंचिदनाभोगादिदोषात्, तथापि पुनः का अनुष्ठानमहााग्रंथः कार्यज्ञाः कार्यपरमार्थविदो भवन्ति एत एव, यथते राजादय इति ॥९४८॥
विध्यमु. अर्थतदेव धर्मानुष्ठानं मतान्तरैराचिख्यासुराह;
दाहरणच अण्णे भणंति तिविहं समयविसयभावजोगओ णवरं । धम्मम्मि अणुढाणं जहुत्तरपहाणरूवं तु ॥९४९॥ ॥७७०॥
अन्येऽपरे आचार्या भणन्ति ब्रुवते त्रिविधं त्रिप्रकारम् । प्रकारानेव दर्शयति-सततविषयभावयोगतः 'भीमो भीम सेनः' इति न्यायेन पदैकदेशेऽपि पदसमुदायोपचारात् सतताभ्यासयोगतः, विषयाभ्यासयोगतः, भावाभ्यासयोगतश्च । नवरं केवलं धर्म विषयभूतेऽनुष्ठानं देवपूजनादिलक्षणं योत्तरप्रधानरूपं तु यद्यस्मादुत्तरं तदेव प्रधानमित्येवंलक्षणमेव च। तत्र सतताभ्यासः नित्यमेवोपादेयतया लोकोत्तरगुणावाप्तियोग्यताऽऽपादकमातापितृविनयादिवृत्तिः । विषयाभ्यासो विषयेऽहल्लक्षणे मोक्षमार्गस्वामिनि योऽभ्यासः पूजादिकरणस्य सः । भावाभ्यासः पुनर्दूरं, भवादुद्विग्नस्य सम्यग्दर्शनादीनां भावानामभ्यास इति ।।९४९॥ एयं च ण जुत्तिखमं णिच्छयणयजोगओ जओ विसए। भावेण य परिहोणं धम्माणुट्ठाण मा किह णु ॥९५०।।
।।७७०।। एतच्च द्विविधमनुष्ठानं न युक्तिक्षमं नोपपत्तिसहं निश्चयनययोगतो निश्चयनयाभिप्रायेण । कुतो, यतो विषये साक्षात् सम्यग्दर्शनाद्यनाराधनारूपे मातापित्रादिविनयस्वभावे, तथा भावेन च भववैराग्यादिना पुनः परिहीणं विषयेऽपि धमांनुष्ठानं कथं नु ? न कथंचिदित्यर्थः। परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य इत्येकमेव भावाभ्यास्रानुष्ठानमुपादेयमिति