SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ।।७५७।। घणासु विगइच्छा वत्थहिरण्णाइएस तह चेव । तञ्चिताए विमुक्का दुहावि रयणाण जोगति ।। ९१३ ॥ धान्यादिषु धान्ये शालिगोधूमादी, आदिशब्दाद् महिष्यादिषु च विगतेच्छा उपरतवाञ्छा, तथा वस्त्रहरण्यादिकेषुवत्राणि चीनांशुकादीनि, हिरण्यं घटितकनकादि, आदिशब्दादन्यविचित्रवस्तुग्रहः, ततस्तेषु तथा चैव विगतेच्छा एव; अत एव तचिन्ता धान्यादिग्रहणविक्रयबुद्धिस्तया विमुक्ता विकला द्विधापि रत्नानां येोग्याः धर्मरत्नस्य द्रव्यरत्नानां चाही भवन्तीत्यर्थः । इति प्राग्वत् ।। ९१३।। अधुना व्यतिरेकमाह; - जे पुण वत्तणओ एएसुं चैव अविगच्छति । ते एयाण अजोग्गा अणिउणं चितियव्वमिणं ।। ९१४।। ये पुनः पुण्यविकलाः स्तोकस्वतस्तुच्छत्वेन धनादीनामेतेष्वेव धान्यादिष्वविगतेच्छास्तदभिलाषिण, इति पूर्ववत्, ते पुरुषां एतेषां द्रव्यरत्नानां धर्मरत्नस्य चायेोग्या वर्त्तते । अतिनिपुणं सूक्ष्माभोगसंगतं यथा भवत्येवं चिन्तयितव्यमालोचनीयमिदं पूर्वोक्तं वस्त्विति ।। ९१४ || अथ पूर्व गाथेोदृिष्टं गुणविभवं धर्मरत्नार्थिनां धाम्यादिरूपतया परिकल्प्य निदर्शयन्नाह ; अक्खुदाई घण्णाइया उ बत्थाइया उ विष्णेया । मज्झत्थाई इइ एक्कबीमगुणयोगओ विहवा ।।९१५॥ 'अक्षौद्योदयाऽक्षयमक्षुद्रता', आदिशब्दाद् 'रूपवत्व - सौम्या कृतित्व' - जनप्रियत्वाऽक्रूरत्वाऽभीरुत्वा' शठत्व''दाक्षिण्य - लजालुत्व - दयालुत्वग्रहः ततोऽक्षोद्यमादिर्येषां दशानां गुणानां ते तथा । किमित्याह - धान्यादयो वर्त्तते धान्यधनादिकल्पा इत्यर्थः । तुः पूर्ववत् । वखादयस्तु विज्ञेया माध्यस्थ्यादयः । वस्त्रादिकल्पा माध्यस्थ्यादय एकादश ।।७५७।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy