________________
॥ अहम् ॥ प. पू. संघस्थविराचार्यदेवेशश्रीमद्विजयरामचन्द्रसूरिभ्यो नमः पूज्यपादसूरिपुरंदरपूज्याचार्यदेवेशश्रीहरिभद्रसूरीश्वरविरचितः 2000000000000000000000000
॥ उपदेशपद-महाग्रन्थः ॥
(तस्य द्वितीयो विभागः ) अथ शुद्धाज्ञायोगस्यैव महात्म्यमुपचिन्वन्नाह;
एत्तो उ विट्टिसुद्धी गंभीरा जोगसंगहेसंति । भणिया लोइयदिटुंतओ तहा पुव्वसूरीहिं ॥३६०॥ इतस्त्वित एव शुद्धाज्ञायोगपूर्वकानुष्ठानस्य सानुबन्धत्वाद्धेतोदृष्टिशुद्धिः सम्यग्दर्शननिर्मलता गंभीरानुद्घाटमहानिधानमिव मध्याविर्भूताद्भतविशेषा योगसंग्रहेषु योगस्य साधुजनानुष्ठानस्य संगहाः संगाहकाः सिद्धान्तालापकास्तेषु द्वात्रिंशत्संख्येषु "आलोयणा निरवलावे आवईसु बढधम्मया" इत्यादिश्लोकपञ्चकोक्तेषु, इतिः पदपरिसमाप्ती, भणिता लौकिकदृष्टान्ततः, तथेति तत्प्रकारात् पूर्वसूरिभिः सुधर्मस्वामिप्रभृतिभिः ॥३६०॥