________________
श्रीउ देशपदे
विनय विषये श्रेणिक निदर्शनम्.
।।६६।
॥६६॥
रिमणुय उक्छोसा ॥१॥" ॥१७॥ इति ।
भवतु नामैकेन्द्रियादीनां दीर्घा कायस्थितिस्तथापि किंनिमित्ताऽसाविति वक्तव्यमित्याशङ्कयाह;एसा य असइदोसासेवणओ धम्मबज्झचित्ताणं । ता धम्मे जइयव्वं सम्म सइ धीरपुरिसेहि ।।१८।। .
एषा चेयं पुनर्प्रधीयसी स्थितिः असकृदनेकवारान् अनेकेषु भवेष्वित्यर्थः दोषासेवनतः दोषाणां राहुमण्डलवत् शशधरकरनिकरवातस्पद्धिस्वभावस्य जोवस्य मालिन्याधायकतया दूषकाणां निबिडवेदोदयाज्ञानभयमोहादीनां यदासेवनं मनोवाकाणैः कृतकारितानुमतिसहायैराचरणं तस्मात । केषामित्याह-धर्मबाह्यचित्तानां श्रुतधर्माचारित्रधर्माच सर्वथा बाह्यचित्तानां स्वप्नायमानावस्थायामपि तत्रानवतीर्णमानसानामित्यर्थः । यत एवं, 'ता' इति तस्माद्धर्मे उक्तलक्षले एव एकान्तेनैवैकेन्द्रियादिजातिप्रवेशनिवारणकारिणि भवोद्भवभूरिदुःखज्वलनविध्यापनवारिणि यतितव्यं सर्वप्रमादस्थानपरिहारेणोद्यमः कार्यः सम्यग् मार्गानुसारिण्या प्रवृत्त्या स्वसामर्थ्यालाचनसारं सदा सर्वास्ववस्थासु धीरपुरुषैर्बुद्धिमद्भिः पुम्भिः ।।१८।।
सम्यग् धर्म यतितव्यमित्युक्तमथ सम्यग्भावमेव भावयन्नाह;सम्मत्तं पुण इत्थं सुत्तणुसारेण जा पवित्ती उं। सुत्तगहणम्मि तम्हा पवत्तियव्वं इहं पढमं ।।१९।।
सम्यक्त्वमवितथरूपता पुनरत्र धर्मप्रयत्ने का इत्याह-सूत्रानुसारेण या प्रवृत्तिः, तुशब्दाऽवधारणार्थो भिन्नक्रमश्चेति, ततः सूत्रानुसारेणव सर्वज्ञागमानुसरणेनैव या चैत्यवन्दनादिरूपा प्रवृत्तिश्चेष्टा सम्यक्त्वम् । एवं सति यद् विधेयं तदाह-सूत्रस्य परमपुरुषार्थानुकूलभावकलापसूचकस्याऽसारसंसारचारकावासनिर्वासनकालघण्टाकल्पस्याऽऽवश्यकप्रविष्टादिभे