________________
श्रीउपदे-
मनुष्यत्व
शपदे
दुर्लभता।
॥४॥ काऊणमणेगाइं जम्मणमरणपरियट्टणसयाइं । दुक्खेण माणुसत्तं जई लहइ जहिच्छियं जीवो ॥५॥ तं तह दुल्लहलभं विज्जुलयाचंचलं च मणुयत्तं । लद्ध ण जो पमायइ सो काउरिसो न सप्पुरिसा ॥६॥१५॥
अथ यदुक्तं-भावार्थसारयुक्तान्युपदेशपदानि वक्ष्ये इति, तत्प्रस्तुतमनुजत्वदुर्लभत्वमधिकृत्यागमसिद्धोपपत्या दर्शयन्नाहएयं पुण एवं खलु अण्णाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिदियाइणं ॥१६॥
एतन्मनुजत्वं, पुनःशब्दो विशेषणार्थः। ततश्चायमर्थः-प्राक् सामान्येन मनुजत्वदुर्लभत्वमुक्तं, सांप्रतं तदेवोपपत्तिभिः साध्यत इति । एवं खलु'त्ति एवमेव दुर्लभमेव । कुत इत्याह-अज्ञानप्रमाददोषतः अज्ञानदोषात सदसद्विवेचनविरहापराधात प्रमाददोषाच विषयसेवनादिरूपाज्ज्ञेयमवगन्तव्यम् । एतदाविष्टो हि जीव एकेन्द्रियादिजातिषु दूरं मनुजत्वविलक्षणासु अरघट्टघटीयन्त्रक्रमेण पुन पूनरावर्त्तते । एतदपि कथं सिद्धमित्याह-यत्कारणाद्दीर्घा द्राधीयसी कायस्थिति पुनःपुनः मृत्वा तत्रव काये उत्पादलक्षणा भणिता सिद्धान्ते एकेन्द्रियादीनां एकेन्द्रियद्वीन्द्रियादिलक्षणानां जीवानामिति ॥१६॥
तानेवैकेन्द्रियभेदान् पृथिवीकायिकादीन पञ्चव प्रतीत्य दर्शयन्नाह ;अस्संखोसप्पिणिसप्पिणीउ एगिदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोद्धव्वा ॥१७॥
'अस्संखोसप्पिणिसप्पिणीउ'त्ति प्राकृतत्वादविभक्तिको निर्देशस्तेनासंख्याता उत्सपिण्यवसर्पिण्यः । तत्रोत्सर्पयति प्रथमसमयादारभ्य निरन्तरं वृद्धि नयति तैस्तः पर्याय वानित्युत्सपिणी । तथा च पञ्चकल्पभाष्यं--"समए समएऽणंता
६४॥