SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ॥४१शा प्रवादात् स्फुटितं प्रकाशीभूतं रोदने दुहितुः स्वयमेव दृष्ट राज्ञो जितशत्रोहाकोपः समजनीति ॥३३५।६।। भणितं च तेन यथा घातयत तक मंत्रिसुतमथवा किमनेनैकेन घातितेन सर्वाण्येव मंत्रिमानुषाणि दहत भस्मीकुरुत । येनोन्मत्तकान्येतानि वर्तन्त इति । ततः किंकरणमो मंत्रिगृहे । ग्रहण कुटुंबस्य प्रारब्धं । भण्डना च मंत्रिपरिवारेण सह लया। मंत्रिणोक्त प्रेक्षामहे तावद्देव ? इति ॥३३६॥७॥ ____ दृष्ट चात्र राज्ञि मंत्री प्राह-योगाद् मञ्जूषासम्बन्धात् समुद्धाठ्य त्यर्थः । तत्त्वं मत्पुत्रकृतोऽन्यकृतो वाऽयमनर्थ इत्येवंलक्षणं जानीहि समवबुध्यस्व स्वात्मनैव । ततो गतो राजा मञ्जषोद्धाटनार्थम् । दृष्टायां च तस्यां मुद्रासंवादे उद्धाटने कृते सति निरूपणानि भालना यावत् क्रियते, तावत् क्षुरिकायुक्तया वेण्या समुपलक्षितो मंत्रिसुतो दृष्टः ।।३३७॥८॥ साध्वसं भयं तद्दर्शने किमिदमित्थमसंभाव्यं दृश्यते । एवं मीमांसयितुमारब्धे मंत्रिणोक्तं देवो जानाति तत्त्वं योऽस्या रक्षकत्वेन व्यवस्थित इति । तस्माद् विस्मयस्त्वाश्चर्य च सर्वेषामहाऽदृष्टाऽश्रुतपूर्वमिदमिति । तत: 'तप्पुच्छ'त्ति मंत्रिपृच्छा, पूजना च तस्य राज्ञा कृता । मंत्रिणोक्तं-देव! सर्वनाशस्ते पुत्राद्भविष्यतीति एतावदेव नैमित्तिकादुपलब्धं नो वेणिच्छेदादिति ॥३३८॥९॥ _इतस्त्वेतस्मादेव नैमित्तिकवचनात् किलेत्याप्तप्रवादरूपात् प्रवृत्तोऽत्र पुत्रसंगोपनेऽहं यावत्तावदेतद् नैमित्तिकोक्तं संवृत्तम् । इतिरर्थपरिसमाप्तौ । अथ निगमयन्नाह-एवमुक्तनीत्याऽचिन्त्यमचिन्त्यसामर्थ्य कर्म यदित्थं विहितप्रतीकारमपि फलाय समुपस्थितम् वीर्यमपि च पराक्रमोऽपि बुद्धिमतोऽचिन्त्य एव य इत्थं समुपस्थितमपि कर्म विफलीकरो ॥४१॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy