________________
।३७१॥
भूतया ॥२६५।।२।।
कर्मोदयसंक्लेशश्चारित्रमोहोदयात् संक्लेशो मालिन्यरूपो जातः । कथं 'गिहिगोरव'त्ति गृहिणो मम सत एते में गौरवमकार्षुस्ततो व्रजामि 'तहित्ति गृहे । इति चिन्ता समुत्पन्ना। 'गोसे वीराभासण'त्ति प्रभाते वीरेणाभाषणं कुतं यथा रात्रावित्थं भवांश्चिन्तितवानिति । सत्यमिति प्रतिपन्नं च तेनेति । उक्त च भगवता न युक्तमेतत्तु इदं पुनस्ते इति ॥२६६॥३॥
यद्यस्मादितस्तु इत एव भवात् तृतीयजन्मनि त्वभासीहस्ती सुमेरुप्रभनामा । ततो वृद्धः सन् वनदवदग्धः सरोऽतिर्थेऽल्पसलिलेऽवतीर्णः सन् ॥२६७।।४।। ___गजभिन्नः दशनाभ्यां वेदनया 'सत्त दिण'त्ति सप्तदिनानि यावत् स्थित्वा मृतः । पुनर्गजो हस्ती जातः मेरुप्रभनामा यूथपतिः। 'वणदव'त्ति पुनर्दवे प्रवृत्ते जातिस्मरो जातः । ततो विभाषा विविधार्थभाषणरूपा वक्तव्या, यथा मया पूर्वभवे इतो वनदवाद् मरणं प्राप्तं ततः करोमि प्रतिविधानमिति ॥२६८।।५।। ___वर्षे वर्षाकाले सञ्जाते स्थण्डिलकरणं तृणकाष्ठाद्यपनयनेन कालेन चोष्णकाललक्षणेन वनदवे प्रवृत्ते तत्र स्थण्डिले स्थानं स्थितिः सञ्जाता तस्य । अन्येषामपि जीवानां तत्र स्थानमिति सम्बध्यते । ततः संवर्तेऽत्यन्तसम्बाधलक्षणे वर्तमाने पादकण्डूयनं निजाङ्गस्य पादेन कण्ड्यनमारब्धं भवतेति ॥२६९॥६॥
तद्देशे पादप्रदेशे शशस्थानं शशकजीवस्थितिर्जाता। अनुकम्पया त्वया पादसंवरणं विहितम् । तथेति समुच्चयार्थी
।।३७१॥