SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ।। ९७ ।। उज्जयिन्याः समीपे शिलाग्रामे 'छोयररोह'त्ति छोकरो मृतस्वमातृकः रोहकनामा भरतसुतः समभूत् । तस्य च अन्यमात्रा व्यसनेऽसम्यगुपचाररूपे क्रियमाणे सति पितुः कोप इतरच संतोषोऽन्यमातृगोचर एव तेन संपादितः । कथमित्याह-गाहस्य परपुरुषस्य प्रथमं पश्चात्स्वदेहच्छायाया गोहत्वेन परिकल्पिताया: कथनेन पितुर्निवेदनेन ततोऽभ्युदयः सम्यगुपचाररूपाऽन्यमात्रा संपादितोऽस्य ।। ५२ ।। पितिसममुझे गीगमणिग्गम पम्हुट्ठणदिणियत्तणया । सइ दिट्ठनयरिलिहणं रायणिसेहो नियघरम्मि ॥५२॥ पुच्छा साहु निमित्तं मंतिपरिच्छा सिलाइ मंडवए । आदण्णेसुं पितिभुंजकमण खणणेगथंभो उ ।।५४।। कहणे चालण संबद्धभासगो तंसि अण्णहा णेयं । माणुसमेत्तस्सुचियं दयपुच्छण पुच्छ रोहेणं ॥ ५५ ॥ पित्रा सममुञ्जयिनीगमो राहकस्य कदाचिदभूत् । तदनु दृष्टोजयिनी वृत्तान्तस्य निर्गमः पित्रैव सह । ततः 'पट्ठति विस्मृतस्य कस्यचिदर्थस्य निमित्तं ' णइनियत्तणया' इति नदीपुलिनात् पित्रा निवर्त्तनं कृतम् । तत्र च सकृदृष्टनगरीलेखनं रोहकेण तदनु तद्देशागतस्य राज्ञो निषेधो निजगृहे आलिखित राजकुलमध्ये प्रविशतः सतः कृत ।। ५३ ।। ततो राज्ञा पृच्छा कृता । अत्रान्तरे साधु निमित्तं शोभनशकुनरूपं संजातम् । तदनु 'मंतिपरिच्छा' इति मन्त्रिपदनिमित्तं तस्य परीक्षा प्रारब्धा यथा शिलाया मण्डपः कार्यः । ततः 'आदण्णेसु'त्ति आकुलेषु ग्रामवृद्धेषु सत्सु 'पिइभुंजगमण 'त्ति रोहक पितुर्भोजनार्थमुत्सूरे गृहगमनं संपन्नम् । ततो रोहकबुद्धया खनने संपादिते एकमहामूलस्तम्भः शिलामण्डप : सपादितः । तुः पादपूरणार्थः ॥ ५४ ॥ ततो राज्ञस्तद्ग्रामवासिना केनचित् कथने कृते सति 'चालण'त्ति 113011
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy