________________
श्रीजैन कथासंग्रहः
112411
गच्छंस्तातं ददर्श सः । ततश्चाश्लिष्य राज्ञोक्तः पुनर्जातोऽधुना सुत ! ॥ २९८ ॥ कुमारः प्राह किं सर्व तातेनैतद्विलोकितम् । नृपोऽथ स्वकृतं सर्वं तस्याख्यत् सोऽवदत्ततः ॥ २९९ ॥ तातं पातयतो दुःखे धिगस्तु मम जीवितम् । दुःखं वो यत्र मा भून्मे वासरः स कदाचन ॥ ३०० ॥ इदं तु दुष्करं चक्रे यदर्थं वित्थ तत्स्वयम् । फलत्यनेकधा युष्मद्भक्तिकल्पलता मम ।। ३०१ ।। इदं चित्रं तु लब्ध्वापि भक्तिकल्पलतामिमाम् । युष्मत्प्रत्युपकारेऽहमसमर्थोऽनृणो न हि ।। ३०२ ।। इत्थं सुतगिरा प्रीतः प्रमोदाश्रु परित्यजन् । नृपः प्राह तवाभक्तिर्न युगप्रलयेऽपि नौ ॥ ३०३ ॥ कृतार्थी सर्वथाप्यावां भवताङ्गभुवा भुवि । यस्मै ते श्लाघते मध्येसभमित्थमृभूपतिः' ।। ३०४ ॥ प्रातर्न्यस्ताश्च ताः कोशे द्वात्रिंशत्स्वर्णकोटयः । जनो देवमिवामंस्त कुमारं स्वचरित्रतः ॥ ३०५ ॥ नृपो नृपश्रियं न्यस्य सुते व्रतधरः स्वयम् । तिमिरार्याभिधाचार्य परिचर्यापरोऽभवत् ।। ३०६ ॥ चिरं निरतिचारं च चारित्रं परिपाल्य सः । परिणामविशुद्धिस्थो देवो वैमानिकोऽजनि ।। ३०७ ।। इति पुत्रप्रभावेण जयशेखरभूभुजा । लोकद्वयसुखं प्राप्तं प्रियपुत्रास्ततः शुभाः ॥ ३०८ ॥
१ इन्द्र
समाप्तमिदमपराजितकथानकम् ।
####
अपराजित
कथानकम् ।
113411