SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः श्रीमूलदेवनृप चरित्रम् 0 ॥२७॥ BBBBBBBBBBBBBS 'स्वेत्युक्ते तया च राट् ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ ३१३ ॥ ततो विडम्ब्य निबिडं, भुजानि निजघान तम् ॥ अचिरेण विपच्येत, चौर्यपापतरोः फलम् ॥ ३१४ ॥ सर्व समर्प्य लोकानां, स्वस्वनामाहितं धनम् ॥ भूधव: पालयामास, भुवं वासवलीलया ॥ ३१५ ॥ यथा चायं मूलदेवनृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ।। ३१६ ॥ एवं मुनीन्द्ररपि भूरिदोषनिदानमप्यामुदारसत्त्वैः॥ आनिर्जरालाभमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ॥ ३१७ ॥ सोऽथ कार्पटिकोऽश्रीषी-चन्द्रग्रसनलक्षणात् ।। स्वप्नादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ॥३१८॥ ततः सोऽचिन्तयद्धिमां, यत्स्वप्नस्ताद्दशस्तदा ॥ आवेदनेन मन्दानां, नीतो निष्फलतां मया ॥ ३१९ ॥ तदद्यापि हि चेत्पीत्वा, गोरसं सरसं शये॥ तदाहमीदशं स्वप्नं, भूयः पश्यामि राज्यदम् ॥ ३२०॥ इति ध्यायन् राज्यलक्ष्मी, कान् सोऽनिशमस्वपीत् ॥ न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ॥ ३२१ ॥ कदाप्यऽसौ कार्पटिकोऽपि पश्ये-स्वप्नं तमप्युत्कटभाग्ययोगात्॥नतु प्रमादाच्च्युतमयजन्मा, लभेत भूयोऽपि जनो नरत्वम् ॥ ३२२॥ ॥ इति श्रीमूलदेवनृपचरित्रं समाप्तम् ॥ ॥२७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy