________________
श्रीजेन
॥अहम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः । ॥श्री प्रेम-भुवनभानु-पद्य-हेमचंद्र-सद्गुरुभ्यो नमः ॥
श्रीमूलदेवनृप
चरित्रम्
कथासंग्रहः
88888
॥श्रीमूलदेवनृपचरित्रम्॥
B888888888888
अभूद्धभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥१॥ तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् ॥ मूलदेवोराजपुत्र-स्तत्राऽभूद्रूपमन्मथः ॥२॥ उदारचित्तः सकलकलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विमलधीनिधिः ॥ ३ ॥ शूरः प्रतिज्ञानिर्वाही, पूर्तविद्यैकसेवधिः ॥ सोऽभूदुचितविहीना-नाथबन्धुगुणप्रियः ॥ ४ ॥ (युग्मम्) तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ॥ ५॥ कुतूहलैनवनवैमानवान् विस्मयं नयन् ॥ वृत्तो मित्रः पुरे तत्रा-ऽचरत् खेचरवच्च सः॥६॥ तत्राशेषगुणाढ्येऽपि, चूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाइव लाञ्छनम्॥७॥ पित्रादिभिर्निषिद्धोऽपि, यतासक्तिं सपकामदेवः। २ अनेकविज्ञानप्राशः ।
॥१॥