SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः धर्मदत्तश्रेष्टि कथा ॥२॥ तथाहि-इह भरतक्षेत्रे कश्मीरदेशे चन्द्रपुर नाम नगरम् । तत्र यशोधवलो नाम राजा । तस्य यशोमती देवी। तत्कुक्षिसमुद्भूतः प्रभूतगुणो निस्तन्द्रः चन्द्रधवलो नाम कुमारः। सर्वेषु शास्त्रेषु पारीणो विशेषतश्च शकुनशाखेषु निपुणो बभूव । कुमारोऽन्यदा रात्रौ धवलगृहोपरि सुप्तः शिवाशब्दं शुश्राव । हृदि विचारं चक्रे-एषा शिवा मम महान्तं लाभं वक्ति इति ध्यात्वा खड्गधरो भूत्वा शब्दानुसारेण स्मशानं जगाम। तत्राग्निकुण्डमध्ये ज्वलन्तं सुवर्णपुरुषं ददर्श। कुमारः समीपस्थं पानीयमानीय स्वर्णपुरुष सिक्त्वा बहिष्वृष्ट्वा (निष्कास्य) भूमौ निक्षिप्य स्वस्थानमागत्य सुष्वाप । प्रभाते जाते प्रभातकृत्यानि कृत्वा पितरं नन्तुं समां ययौ । तावता प्रतीहारेण राजा विज्ञप्तः, स्वामिन् ! कश्चित्पुरुषः शीर्षे रजः क्षिपन् मुषितोऽस्मीति पूत्करोति । राज्ञा चिन्तितम्-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां, सर्वेषां पार्थिवो गतिः॥१॥ इति तमाकारयामास-सोऽपि पुमान् पूत्कुर्वन्नृपसमीपं प्राप्तः, राज्ञोचे-किं ते गतं ? केन पराभूत: ? तेनोक्तम्-सुर्वणपुरुषो गतः । किं कुर्वेऽहंपञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपते । दैवेनाहं पराभूतस्त्वमेव शरणं मम ॥२॥ राजापि तं दुर्बलशरीरं मलिनवखं च दृष्ट्वा बभाषे-भो ! युक्तं (सत्यं) वद, तवेदृशाकारस्य स्वर्णपुरुषो न घटतेऽन्यत्किञ्चिद्गतं कथय । तथा सभ्यैरपि प्रोक्तम्-करहा कंटउ चारि कियमल्ली, ॥२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy