________________
श्रीजैन कथासंग्रहः
धर्मदत्तश्रेष्टि कथा
॥२॥
तथाहि-इह भरतक्षेत्रे कश्मीरदेशे चन्द्रपुर नाम नगरम् । तत्र यशोधवलो नाम राजा । तस्य यशोमती देवी। तत्कुक्षिसमुद्भूतः प्रभूतगुणो निस्तन्द्रः चन्द्रधवलो नाम कुमारः। सर्वेषु शास्त्रेषु पारीणो विशेषतश्च शकुनशाखेषु निपुणो बभूव । कुमारोऽन्यदा रात्रौ धवलगृहोपरि सुप्तः शिवाशब्दं शुश्राव । हृदि विचारं चक्रे-एषा शिवा मम महान्तं लाभं वक्ति इति ध्यात्वा खड्गधरो भूत्वा शब्दानुसारेण स्मशानं जगाम। तत्राग्निकुण्डमध्ये ज्वलन्तं सुवर्णपुरुषं ददर्श। कुमारः समीपस्थं पानीयमानीय स्वर्णपुरुष सिक्त्वा बहिष्वृष्ट्वा (निष्कास्य) भूमौ निक्षिप्य स्वस्थानमागत्य सुष्वाप । प्रभाते जाते प्रभातकृत्यानि कृत्वा पितरं नन्तुं समां ययौ । तावता प्रतीहारेण राजा विज्ञप्तः, स्वामिन् ! कश्चित्पुरुषः शीर्षे रजः क्षिपन् मुषितोऽस्मीति पूत्करोति । राज्ञा चिन्तितम्-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां, सर्वेषां पार्थिवो गतिः॥१॥ इति तमाकारयामास-सोऽपि पुमान् पूत्कुर्वन्नृपसमीपं प्राप्तः, राज्ञोचे-किं ते गतं ? केन पराभूत: ? तेनोक्तम्-सुर्वणपुरुषो गतः । किं कुर्वेऽहंपञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपते । दैवेनाहं पराभूतस्त्वमेव शरणं मम ॥२॥ राजापि तं दुर्बलशरीरं मलिनवखं च दृष्ट्वा बभाषे-भो ! युक्तं (सत्यं) वद, तवेदृशाकारस्य स्वर्णपुरुषो न घटतेऽन्यत्किञ्चिद्गतं कथय । तथा सभ्यैरपि प्रोक्तम्-करहा कंटउ चारि कियमल्ली,
॥२॥