SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१२॥ Brerarer मान्या त्वयैव हि । कञ्चुकादि तथा देयं धान्यं शाल्यादिकं पुनः ।। १३८ ।। शाटिकादि सदा दत्ते सापि धन्यनिदेशतः । प्राह श्रेष्ठी कुटुम्बाग्रे स्नुषेयं भाग्यशालिनी ।। १३९ ।। तच्छ्रुत्वा श्रेष्ठिनं प्रोचुस्तिस्रो वध्वः समत्सराः । व्याख्यातोऽग्रेऽपि तातेन देशं तत्याज देवरः ।। १४० ।। दिवा च क्रियते कर्म मृत्तिकावहनोद्भवम् । रात्रौ च सुप्यते भूमौ तातैषा भाग्यशालिनी ।। १४१ ॥ धन्यः प्राह सुभद्रां च 1 कदाचन गृहागताम् । भद्रे ! कथय वार्तां मे का च त्वं ? किमिहागता ? ।। १४२ ।। लज्जयाधोमुखी सोचे दैवं पृच्छ न मां पुनः । शालिभद्रस्वसा चाहं गोभद्रश्रेष्ठिनन्दिनी ॥ १४३ ॥ भवतामभिधानेन सोद्वयूढा श्रेष्ठिसूनुना । गृहस्य कलहे जाते स मां त्यक्त्वा क्वचिद्ययौ ॥ १४४ ॥ धन्यः स्माह स्मितं कृत्वा भद्रे ! तव पतिर्न तु । दूरदेशान्तरं गत्वा जीवति त्वद्विना मृतः ॥ १४५ ।। कथं तिष्ठसि हे भद्रे ! निजनाथवियोगिनी । तस्मात् पतिव्रतं त्यक्त्वा भोगान् भुङ्क्ष्व मया सह ।। १४६ ॥ साऽपि तद्वचनं श्रुत्वा वज्रपातनिभं हृदि । कर्णौ पिधाय पाणिभ्यां साशङ्का सारमब्रवीत् ।। १४७ ।। गतियुगलि (ल) - कमेवोन्मत्तपुष्पोत्करस्य, त्रिनयनतनुपूजा वाऽथवा भूमिपातः । विमलकुलभवानामङ्गनानां शरीरं, पतिकरजरजो वा सेवते सप्तजिहवः ॥ १४८ ॥ धन्यसाधुरसाधुस्त्वं यत्त्वं वाञ्छसि मां प्रियाम् । पतिं १ शंकर KNENENNENEN* श्री धन्यकञ्थानकम् । ॥१२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy