SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री धन्यकथानकम्। ॥९॥ राजप्रमुखसभ्यानां चमत्कारो यथाऽजनि ॥ १८ ॥ शतानीको निजां पुर्ती ददौ तस्मै धनान्विताम् । धन्योऽपि तां शुभे लग्ने विवाह्य व्यलसत् पुरे ॥ ९९ ॥ धन्यः साधुरिति ख्यातिं पृथिव्यां प्राप सक्रमात् । द्रव्यार्जनकृते सर्वदेशेषु प्रहिता नराः॥१००॥ दिनेऽन्यत्र स्वकीर्त्यर्थ लोकाचारस्वभावतः । आरब्धं च पुराभ्यणे तेन खानयितुं सरः॥१०१॥ . इतः श्रेष्ठिगृहे तत्र निर्गते धन्यपुङ्गवे। धनं सर्व ययौ चागाहारियं पुण्यवर्जिते॥१०२॥ यतःतैलं नास्ति घृतं नास्ति नास्ति मुद्गयुगन्धरी । रब्बार्थ लवणं नास्ति तन्नास्ति यद्धि भुज्यते ॥ १०३ ॥ दध्यौ श्रेष्ठी धनेनैव गौरवं लभते नरः । तद्धनं धन्यसार्थेन गतं कुर्वेऽधुना किमु ? ॥ १०४ ॥ पूर्व धन्यप्रभावेण विख्यातोऽत्र पुरेऽभवम् । साम्प्रतं लघुवाणिज्यं कुर्वेऽहं लजया कथम् ? ॥ १०५ ॥ विमृश्येति कुटुम्बेन सार्धं मन्त्रं चकार सः । दूरदेशान्तरं कर्मकृद्वृत्त्योदरपूर्तये ॥ १०६ ॥ धन्यजायाद्वयं प्रेष्य श्वशुरः पितृवेश्मनि। सुभद्रां च वधू प्रोचे याहि वत्सेऽस्तु ते सुखम् ॥१०७॥ सुभद्रा प्राह हे तात! युक्तमुक्तं त्वया पुनः । एकाग्रचित्तवृत्त्या च विज्ञप्ति मेऽवधारय ॥ १०८ ॥ सुखे च विभवोल्लासे सेव्यं स्त्रीभिः पितुर्गृहम् । श्वशुरस्य गृहं दुःखे सुखे दौःस्थेऽपि सर्वदा॥१०९॥ कुस्त्री पितृगृहं याति दृष्ट्वा दुःखं प्रियालये। पितृगृहसुखं मुक्त्वा दुःखे तिष्ठन्ति सुस्त्रियः॥११०॥ सुखे दुःखे तथा दौःस्थ्ये विदेशगमनेऽपि ॥९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy