________________
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ॥
॥१०॥
'रात्रिदिनभागंन वेत्ति सः॥८॥ इत्थं द्वादशभिर्वादशस्वर्णकोटयः। भोगपनिमग्नेन भुक्तास्तेन तया समम् ॥ ९॥ अन्यदा याचितुं स्वर्णसहस्र प्रेषि चेटिका । अकया मुद्रिकारत्नमर्पयित्वा तदौकसि ॥१०॥ नाम्नैव सा महालक्ष्मीर्माता लक्ष्मीविवर्जिता। विमुच्याऽश्रूण्यङ्गलग्नं निजं भूषणमार्पयत्॥११॥ पुरो देवकुमारस्य, वृत्तान्ताऽऽख्यानपूर्वकम् । मुमोच चेटी तन्मत्वा, प्राह सौभाग्यमञ्जरी॥१२॥ त्वं व्यावृत्यार्पवैतानि, तथा चक्रे ततश्च सा। तथैव प्रतिपत्तिं तु कुरुतेऽस्य पणाङ्गना॥१३॥ अक्का प्राह सुतां पुत्रि ! त्वमेनं त्यज निर्धनम् । सा प्राह स्वर्णकोटीनां, दाताम्ब ! त्यज्यते कथम् ? ॥ १४ ॥ तदस्त्वयं चिरं नान्यैः, कार्य मम धनेन च । मुखेनैवाक्षहीनेनैतद्धीनेन धनेन किम् ? ॥१५॥ मत्वा तदीयनिर्बन्धमका प्रोवाच चेटिकाः । तथा कार्यमनौचित्यं, यथा निर्यात्ययं गृहात्॥१६॥ ततस्ता न तदादेशं, कुर्वते कुर्वतेऽथवा । कालक्षेपेन मन्यन्ते तं चञ्चाप्रतिमं च ताः॥१७॥ प्रातस्तस्याऽन्यदा काउपि, तत्सम्मुखममार्जयत् । तां पराऽऽह कथं धूलिं क्षिपस्येनं न पश्यसि ? ॥ १८॥ सा प्राह वल्लभश्चेत्तेऽसो तत्त्वं निजाञ्चलम् । विधेहस्यान्तर इति, प्रवदन्तीः परस्परम् ॥ १९ ॥ कृतकृत्रिमकोपाऽका,न्यषेधत्स त्वचिन्तयत्। मम निर्वासनोपायोऽवश्यमेव विधीयते॥२०॥आचारो हि पणस्त्रीणां, निर्धनस्त्यज्यते जनः । एतां विहाय नाऽन्यत्र सुखं विषयजं पुनः॥२१॥ तद्रत्वा स्वगृह
38|UMARRRRRER
al
॥१०॥