________________
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ॥
॥७॥
॥ सोऽन्यदा कारिते राज्ञा रम्ये रत्नर्विनिर्मिते । गतो देवकुले मित्रैस्तैः सुदुर्ललितैः समम् ॥ ६८॥ स - स्वर्णतोरणाभ्यणे, तत्रैकां शालिभञ्जिकाम् । हसन्तीमिव जल्पन्तीमिवैक्षत मणीमयीम् ॥ ६९ ॥ द्रष्टुं
लग्नस्तदङ्गानि, स निमेषविवर्जितः। कीलितस्तम्भिताऽऽ-लेख्यलिखिताङ्ग इवोर्ध्वगः ॥ ७० ॥ पञ्चेषुणेषुभिर्विद्ध इव भूम्यां स निश्चलः । उवाच तत्र लावण्यं, मयाऽपायि चिरं दृशाम् ॥ ७१ ।। वदाधुना कृतार्थत्वं यथा श्रवणयोर्भवेत् । अथवा न क्षमा वक्तुं, नार्यः प्रथमसङ्गमे ?॥७२॥ तथाऽपि हि त्वयात्मा मे, ऋजुदृष्ट्या समर्पितः। न वीक्ष्योऽहं कटाक्षैस्तु भवत्या मर्मवेधिभिः ।। ७३ ॥ वदन्निति हसित्वा स मित्ररूचे भवानिदम् । वक्ति कस्याः पुरो रत्नमयी पञ्चालिका ह्यसौ॥ ७४ ।। तदप्रत्ययतः स्पृष्ट्वा, तां पानमिताननः । स तस्थौ गदितं मित्रै विषादं कुरु मित्र ! मा॥ ७५ ॥ यदीयप्रतिरूपेण, शिल्पिना घटितासको । तामेव दर्शयामस्ते, किमस्यामादरस्तत: ? ॥ ७६ ॥ स प्राह प्राग् ग्रहेणेव, रागेणाहं विडम्बितः । सुहृदोऽपि हि यूयं च, विप्रतारयताधुना ॥ ७७ ॥ अथो बहुविधान् कृत्वा, शपथांस्तं बभाषिरे । अस्या यथाभूदुत्पत्तिस्तथा त्वं मसृणा शृणु ॥ ७८ ॥ कियतामपि वर्षाणां, परतोऽत्र समागतः । दूरदेशान्तरात्सूत्रधारो विज्ञानगर्वितः ॥ ७९ ॥ स च सौभाग्यमञ्जर्या, वेश्याया रूपनिर्मिती । सिंहद्वारे नरेन्द्रस्य, चक्रे पत्रावलम्बनम् ॥ ८०॥ कोऽपि सौभाग्यमञ्जर्याः प्रतिरूपं
walaaaaaadmi HMMMARRRRRE
॥७॥