SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रह श्रीजयविजय कथानकं ॥२९॥ मेरो आगत्य दयाभावं दर्शयन्नृपतिं प्रतिः प्रोवाच-हे नृप! अधुना स्वहितं चिन्तय नागस्य च नमस्कारं कुरु, येनेदानीमपि सर्वेषां सुन्दरं करोमि तदा दुःखरूपवायुभिः कम्पमानोऽपि स्वव्रते निष्प्रकम्पो नृपो पूर्ववदेव प्रोक्तवान् । अहो महात्मनां वाग्विपर्यासः प्राणान्तेऽपि नैव भवति । तदनु नृपो जाङ्गुलिकं जगाद, अस्मिन्विषये. त्वया किञ्चदपि न वक्तव्यम् । परन्तु त्वामेकं पृच्छामि, चेज्जानासि ? तदा कथय, पीडितोऽहं नाल्पमपि जीवितं धतुं समर्थोऽस्मि, तथा एतज्जातीयेन सर्पण दष्टो मानवः कियत्कालं जीवेत् ? सोऽप्युवाच षण्मासपर्यन्तम् । हे राजन् ! एतावत्कालपर्यन्तं त्वं कथं दुःखं सहिष्यसे ? ततस्सत्त्वशाली राजा प्रोवाच दुस्सहमपि दुःखमिदं षण्मासी षड्युर्गी वा भवतु परन्तु स्वीकृतं व्रतं नैव त्यक्ष्यामि । यतो धर्महेतुतयाऽस्य दुःखस्य सहन लाभायैव भवति, व्रतत्यजनन्तु नरकाय, तथा च पापाज्जातं दुःखं, पापक्षयादेव नाशमेति नान्यथा। तस्य क्षयो धर्मादेव भवति, अतस्तस्मिन् को न दृढो भवेत् ? यत उक्तम्, वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहियवयभङ्गो, मा जीअं खलियसीलस्स॥१॥ 21 एवं राशि वदति सति पञ्चदिव्यानि प्रकटीबभूवुः । तत्रैकं वस्त्रोत्क्षेपः, द्वितीयं पुष्पवृष्टिः, ॥२९॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy