________________
4
श्रीजयविजय कथानकं
कथासंग्रह
॥५॥
ज्ञापनीय इति विचारयित्वा ताभ्यां केचिदन्योक्ती युक्त्या लिखिते त्रिभिः पद्यैः । ते द्वे चेमे- तुलेऽवलेपं 'वहसे वृथैव, समप्रमाणं निखिलान्नयेऽहम् । गुरूनधस्तादगुरून् यदुच्चान्, करोष्यशेषान् कुदृषत्समांश्च ॥१॥रत्नानि रत्नाकर? मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि । हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाजि॥२॥नचैव दोषस्तव किन्तु कस्या-प्यन्यस्य यः क्षोभकरस्तवापि। गुणोऽथवायं कथमन्यथाऽस्तु, तेषां गुणैः स्वैर्महिमप्रवृद्धिः॥३॥ इति सिंहद्वारे लिखित्वा सिंहवत्साहसिको सायं गुप्ततया झटिति तस्मानगरान्निर्गतौ । ततश्च नगराबहिस्तादेव मणिप्रदीपैर्नित्यप्रकाशिनि श्रीशान्तिनाथचैत्ये प्रभुं प्रणम्य ताविति स्तुति कर्तु लग्नौ:- नित्यानन्दपदप्रयाणसरणी, श्रेयोऽवनीसारणी, संसारार्णवतारणैकतरणी, विश्वर्द्धिविस्तारिणी। पुण्याङ्करभखरोहधरणी, व्यामोहसंहारिणी, प्रीत्यै कस्य न तेऽखिलार्तिहरणी मूर्तिमनोहारिणी ॥१॥ तदनन्तरं दूरे गत्वा परिश्रान्तौ तौ विश्रान्तये कुत्रापि वटवृक्षस्याधस्तात् तस्थतुः, तत्रानुजः सुष्वाप । ज्येष्ठस्तु जागर्ति, तदानीं तस्मिन्नेव वटे वसन्ती काचिद्यक्षिणी यक्षमुवाच-यदिमौ द्वावतिथी आतिथेयं भृशं योग्यौ स्तः। यदि यादृशस्तादृशोऽप्यतिथि: पूज्योऽस्ति, तर्हि किं पुनः पुण्योदयेन प्राप्ती सर्वश्रेष्ठाविमो ? तदा यक्षोऽपि तां प्रत्युवाच-हे प्रिये ! साधु साधु त्वयोक्तं, दिव्यानि त्रीणि वस्तून्यर्पयित्वाऽनयोरातिथ्यं करिष्यामि । तत्रैकः पाठेन सिद्धो
समें
॥५॥