SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 4 श्रीजयविजय कथानकं कथासंग्रह ॥५॥ ज्ञापनीय इति विचारयित्वा ताभ्यां केचिदन्योक्ती युक्त्या लिखिते त्रिभिः पद्यैः । ते द्वे चेमे- तुलेऽवलेपं 'वहसे वृथैव, समप्रमाणं निखिलान्नयेऽहम् । गुरूनधस्तादगुरून् यदुच्चान्, करोष्यशेषान् कुदृषत्समांश्च ॥१॥रत्नानि रत्नाकर? मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि । हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाजि॥२॥नचैव दोषस्तव किन्तु कस्या-प्यन्यस्य यः क्षोभकरस्तवापि। गुणोऽथवायं कथमन्यथाऽस्तु, तेषां गुणैः स्वैर्महिमप्रवृद्धिः॥३॥ इति सिंहद्वारे लिखित्वा सिंहवत्साहसिको सायं गुप्ततया झटिति तस्मानगरान्निर्गतौ । ततश्च नगराबहिस्तादेव मणिप्रदीपैर्नित्यप्रकाशिनि श्रीशान्तिनाथचैत्ये प्रभुं प्रणम्य ताविति स्तुति कर्तु लग्नौ:- नित्यानन्दपदप्रयाणसरणी, श्रेयोऽवनीसारणी, संसारार्णवतारणैकतरणी, विश्वर्द्धिविस्तारिणी। पुण्याङ्करभखरोहधरणी, व्यामोहसंहारिणी, प्रीत्यै कस्य न तेऽखिलार्तिहरणी मूर्तिमनोहारिणी ॥१॥ तदनन्तरं दूरे गत्वा परिश्रान्तौ तौ विश्रान्तये कुत्रापि वटवृक्षस्याधस्तात् तस्थतुः, तत्रानुजः सुष्वाप । ज्येष्ठस्तु जागर्ति, तदानीं तस्मिन्नेव वटे वसन्ती काचिद्यक्षिणी यक्षमुवाच-यदिमौ द्वावतिथी आतिथेयं भृशं योग्यौ स्तः। यदि यादृशस्तादृशोऽप्यतिथि: पूज्योऽस्ति, तर्हि किं पुनः पुण्योदयेन प्राप्ती सर्वश्रेष्ठाविमो ? तदा यक्षोऽपि तां प्रत्युवाच-हे प्रिये ! साधु साधु त्वयोक्तं, दिव्यानि त्रीणि वस्तून्यर्पयित्वाऽनयोरातिथ्यं करिष्यामि । तत्रैकः पाठेन सिद्धो समें ॥५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy