SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ बलभद्रचरित्रं ॥ वह्नस्तथा द्वारवतीविनाशं सर्वत्र सर्वेऽपि खलाश्च तुष्टाः । शिष्टाः पुनः कष्टदशां प्रपन्नाः ॥२४॥ तेषां ततो हर्षविषादनाशकृते कृतिन् चक्रगदादिपाणिं ॥ श्रीसंश्रितांकं गरुडैकयानं । मां पीतवस्त्रं च विमानसंस्थं ॥२५॥ नीलांबरं मुशलसीरसनाथपाणि-मात्मानमुन्नतिघरं च नभोंगणे त्वं ॥ सद्यः प्रदर्शय बलाखिलभारतेऽत्र ॥ नाशं यथा व्रजति न: स जनापवादः ॥२६॥ युग्मं ॥ अन्यच्च लोके भवति प्रघोषः । श्रीरामकृष्णौ किल दिव्यरूपौ ॥ देवौं ध्रुवं नित्सुखौ निजेच्छाविहारशीलौ जयत: सदैव ॥२७।। बलामरस्तत्प्रतिपद्य दक्षिणं। ततः क्षणात् श्रीभरतार्धमागमत् ॥ प्रदर्शयामास विमानसंस्थिते। रूपे इमे व्योमतलप्रतिष्ठिते॥२८॥ स्फुटं जगादेति च दिव्यदेह-द्युतिर्बल: संश्रृणुतांगभाजः ॥ विश्वस्य विश्वस्य हि नित्यजन्म-संहारकर्मैककरा वयं भोः ॥२९॥ कृता पुरी द्वारवती सुखार्थ-मस्माभिरेवेयमहो क्षणेन ॥ जहे यदन्यत्र यियासुभिर्द्राग् । प्रक्रीडितुं स्वीयमनोऽभिवृत्त्यै ॥३०॥ ईट्टक्स्वरूपाः प्रतिमाः पदे पदे । निवेश्य तुंगेषु सुरालयेषु ॥ श्रुत्वा च दृष्ट्वैहिकसौख्यलालसा । भक्ता बभूवुर्निखिला महीजनाः ॥३१॥ तयोर्विहारेष्वमितास्ततोऽरं । निर्माप्य नूनं प्रतिमां महामहै: ॥ पूजयन्नैहिकभोगसंगमा-भिलाषिणो द्राग् भरतार्धमानवाः ॥३२॥ तदर्चकेभ्यो बलदेवदेव: । श्रियं समग्रां प्रददौ प्रमोदात् ॥ विशुद्धसम्यक्त्वधरोऽपि बंधु-प्रेम्णेति मिथ्यात्वमसौ वितेने ॥३३॥ क्रमेण भुक्त्वा सुरलोकसौख्यं । संपूरितायुश्च्यवनं विधाय ॥ आगामिकायामवतीर्य चोत्सर्पिण्यां विशाले सुकुले स देवः ॥३४॥ श्रीकृष्णजीवस्य तथाममाख्या-हत: सुतीर्थे किल भाविन: स: ॥ दीक्षां समादाय महोदयाभां । संप्राप्स्यतेऽनंतसुखं क्रमेण ॥३५॥ श्रुत्वैवं बलदेवसाधुचरितं नि:शेषपापापहं । कामक्रोधमदादिभेदजनकं
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy