________________
नमो नमः श्री गुरुप्रेमसूरये
बलभद्रचरित्रं॥
॥ अथ श्रीबलभद्रचरित्रं प्रारभ्यते ॥
(कर्ता - श्रीशुभवर्धनगणी)
भस्मीबभूव प्रतपत्प्रताप-हुताशने यस्य मनोजशाखी ॥ शिवांगभूर्भूरि शिवानि दद्यात् । स नेमिनेता शिवमार्गदर्शी ॥१॥ समस्ति पूरवती सतीव । सौंदर्यलक्ष्म्या महतां रतिप्रदा ॥ कृष्णाभिधं भव्यपतिं च प्राप्य । क्षणं विलासोऽन्यनृपः कृतो न हि ॥२॥ तस्यां नगर्यां नवमोऽर्धचक्री । चकार राज्यं सह बंधुनाथ ॥ अन्येधुरागादिह रैवताख्यो-द्याने जिनेद्रः किल नेमिनामा ॥३॥ तत्रागतं पातकघातकं श्री-जिनं विनंतुं समुपेत्य तत्र ॥ नत्वोचितस्थानमलंचकार । विष्णुः परीवारयुतोऽतितुष्टः ॥४॥ सम्यग् समाख्याय विशेषधर्म रहस्यमर्हन् भगवान् हिताय ॥ विनश्वरं वैभवयौवनादि । सांसारिकं सर्वमथो जगाद ॥५॥ विष्णुर्निशम्येति जिनेश्वरं तं । पप्रच्छ पूरवती मदीया ॥ स्व:संनिभा' स्थास्यति नक्ष्यतीश । किं भावि वाथो
मरणं कुतो मे ॥६॥ त्रिकालविद्विश्वगुरुर्जगाद । श्रृण्वत्र विष्णो मदिरामदांधैः ॥ भवत्कुमारै : कपितात्पुरोऽस्या । द्वैपायन विता में विनाशः ॥७॥ जराकुमाराद्गुरुबंधुतस्ते । मृत्युभविष्यत्यचिरान्मुकुंद ! ॥ भवव्यवस्था विकटस्वरूपा । दुःखावहांते सुतरामथेदृग् ॥८॥