________________
पारयितव्य
सुदर्शन
चरित्रं ॥ ७
॥
मदीयभर्तुरयं कलंकः समापतितः संभाव्यते. अतो महासंकटे पतितया मया संप्रति धर्मस्यैव शरणमंगीकर्तव्यं येनायं विघ्नः स्वयमेव वि-ई लीनो भविष्यति इति ध्यात्वा तया कायोत्सर्गः स्वीकृतः, ध्यातं च यदा मदीयभर्तुरयं विघ्नो दूरं यास्यति, तदैव मया कायोत्सर्गः पारयितव्यः अथ यावत्ते राजपुरुषास्तं सुदर्शनश्रेष्ठिनं शूलायामारोपयितुं प्रवृत्तास्तावत्तस्याखंडव्रतप्रभावेण संतुष्टा शासनदेवी तां शूलां स्वर्णसिंहासनरूपामेव व्यधात्. तदाश्चर्य प्राप्तैस्तैर्नृपपुरुषैः स वृत्तांतो राज्ञे ज्ञापितः, तत् श्रुत्वा निजहृदि चमत्कृतो राजापि तत्रागतः, सर्वे पौरा अपि तत्रागत्य मिलिताः. तदा शासनदेव्या प्रकटीभूय तस्या अभयाराज्याः सकलमपि दुश्चेष्टितं सर्वलोकसमक्षं राज्ञे प्रकटीकृतं, कथितं चाथ यः कोऽपि शीलधर्मपरयोरेतयोदैपत्योविरुद्धं चिंतयिष्यति तमहं स्वयमेव देहांतशिक्षा प्रापयिष्यामि, इत्युक्त्वा शासनदेवी तिरोभूता, अथ राजा निजापराधं क्षमयित्वा सपौरो महोत्सवेन तं तदीयगेहे प्रापयामास. एवं धर्मप्रभावेण कुशलक्षेमं निजस्वामिनं गृहे समागतं निरीक्ष्य मनोरमयापि कायोत्सर्गः पारितः, ततो राजा तां निजराज्ञीमभयां पंडितां कपिलां चापि स्वदेशानिष्कासयामास. क्रमात्तास्तिम्रोऽपि मृत्वा दुर्गतिं प्राप्ताः ततो वैराग्यवासितहृदयः स सुदर्शनः श्रेष्ठी संयममंगीकृत्य तीव्रतपःप्रभावेण प्राप्तकेवलज्ञानः सकलकर्मक्षयं विधाय मुक्तिमगात्. मनोरमापि क्रमाद् गृहीतसंयमा क्षीणसर्वकर्मपुंजा मुक्तिं गता, ॥ इति श्रीसुदर्शनश्रेष्ठिचरित्रं समाप्तं ॥
॥ इति श्रीसुदर्शनश्रेष्ठिचरियं समाप्तम्॥