________________
सुदर्शन चरित्रं
समानयत । शिविकायां
॥ ६ ॥
२ दिवसे चतुर्दशीपर्व मत्वा नृपादेशं संप्राप्य कापि देवकुले कायोत्सर्गध्यानेन तस्थौ. अथ सा विचक्षणा पंडितापि लब्धावसरा राज्याः । ३६ पूजनार्थ सप्रभावामेकां यक्षप्रतिमां शिविकायामारोप्य वाद्यवादनपूर्वकमंतःपुरमध्ये समानयामास. पुनस्तां प्रतिमा बहिरानयत्, पुनश्चांतःपुरे
समानयत्. एवं द्वित्रिवारं कुर्वती सा सौविदल्लादीनां विश्वासमुत्पादयामास. प्रांते सा कायोत्सर्गस्थं तं सुदर्शनश्रेष्ठिनं देवकुलात्समुत्पाट्य, 1 a शिविकायां च संस्थाप्य यक्षप्रतिमामिषेण तेषां सौविदल्लादीनां वंचनं विधायांतःपुरे समानयत्. सुदर्शनस्तु समापतितमुपसर्ग विज्ञाय तत्रापि
मौनेन कायोत्सर्गस्थ एव तस्थौ. ततः सा कामविह्वलाऽभयाराज्ञी तं मन्मनाक्षरै जल्प, भो सुदर्शन ! अहं त्वदीयरूपगुणादिभिर्मोहितास्मि, 2 अतो मया सह भोगान् भुंक्त्वा मदीयं कामज्वरं सांत्वय, एवं तया भूरिचाटुवचनैर्हावभावपुरस्सरं प्रार्यमानोऽपि स सुदर्शनः किमपि न जजल्प. एवं बहुविधप्रार्थनयापि किमप्यजल्पंतं तं विलोक्य कोपकरालनयना सा तं प्राह, रे ! दुष्ट ! मयैवं भूरिशः प्रार्थ्यमानोऽपि यदि मम सन्मुखमपि नावलोकयसि, तदाहं नूनं तव प्राणान् ग्रहीष्यामि. एवं तया भाषितोऽपि सदृढतरमनाः साहसमवलंब्य निजशीलरक्षणार्थ न किंचिदप्यवदत्. अथातीवविलक्षीभूतया कोपाकुलचित्तया तया पूत्कारः कृतः, भो भो लोकाः ! धावत अयं दुष्टः पापात्मा मदीयं शीलं भक्तुमत्रागतोऽस्ति. एवं राज्या कृतं पूत्कारं निशम्य द्रुतमेव तत्र केचिद्राजपुरुषाः समागताः, तैश्च गृहीत्वा स श्रेष्ठी नृपपाचे समानीतः, कथितं चायं दुष्टो राज्याः शीलभंगार्थ कामविह्वलीभूतो भवतामंतःपुरे प्रविष्टोऽभूत्. तत् श्रुत्वाऽऽश्चर्य प्राप्तो नृपः सुदर्शनमपृच्छत्, भो सुदर्शन ! त्वं किमर्थ कथं च मंदीयांतःपुर-मध्ये प्रविष्ट ? तत् श्रुत्वा सुदर्शनस्तु निजपौषधव्रतभंगभयान किंचिदप्यवदत्. तदा क्रुधेन राज्ञा तेभ्यो निजपुरुषेभ्यः समादिष्टं, यदयं परदारलंपटः पापी शूलायामारोप्यतां, एवं नृपादिष्टास्ते राजपुरूषास्तं सुदर्शनश्रेष्ठिनं पुरमध्ये भ्रामयित्वा शूलारोपणार्थ वधस्थाने निन्युः. इतो मनोरमा निजभर्तुर्विडंबनां विज्ञाय स्वचेतसीति व्यचिंतयत्, नूनं यदि सूर्योऽपि कदाचित्पश्चिमायां दिशि समुदयेत्तथापि मम भर्तरि एवंविधो दोषलेशोऽपि न संभवेत्. केनापि पूर्वकृतदुष्कर्मोदयेन कस्यापि मायाजालपतितस्य