________________
॥9॥
श्री प्रेम-भुवनभानु-पद्म-सदगुरुभ्यो नमः
श्रीमद कीर्तिसूरिवर्यविरचिता
पालगोपालकथा॥ पालगोपाल कथा ये शीलं सुखकृल्लील, भजन्ते विजितेन्द्रियाः । तेषामेषा सुरेन्द्रादि-पदवी न दवीयसी ॥१॥ गृहस्था अपि ये शील-पालनैकपरायणाः। ॥१॥
भवन्ति संपदस्तेषां, पालगोपालयोरिव ॥२॥ अथवा-पौषधे इढचित्ताः स्यु-ये सुरैः क्षोभिता अपि । तेषां दूरे न मोक्षश्रीः, पालगोपालयोरिव X॥३॥ यद्वा-मुनीनुद्वेजयेद्यस्तु, मनागपि हि सुव्रतान् । स आप्नोत्यापदो घोरा, अन्यजन्मनि पालवत् ॥४॥ अथवा-वैराद्वा जन्तवः प्रेत्य
बन्धुभावं गता अपि । प्राच्यद्वेषाद् दुःखदाः स्युः, पालगोपालयोरिव ॥५॥ अथवा-आराद्धो देवनत्यादि-धर्मः स्वल्पोऽपि देहिनाम् । राज्यादिसंपदो दत्ते, पालगोपालयोरिव ॥६॥ तथाहि-अस्त्यत्र भरते स्वर्ग-जयिन्युज्जयिनी पुरी। समस्तपुरसौन्दर्य-निर्यासैरिव निर्मिता ॥७॥ नृपस्तत्र महासेनो, विष्वक्सेनपराक्रमः । विश्वव्यापिमहासेनो महासेन इवापरः ॥८॥ प्रथमानगुणा तस्य, प्रथमा सुरसुन्दरी। पट्टराज्ञी द्वितीया तु, महालक्ष्मीरजायत ॥९॥ अभूतां सुरसुन्दर्याः, पालगोपालनामको । सुरूपौ चतुरौ धीरौ, तनयो सनयौ सदा ॥१०॥ अस्वप्नेशसमानौजा, राजा स्वप्नेऽन्यदैवत । प्रविशन्तं निजावासे, कबन्धं नृत्यतत्परम् ॥११॥ किमेतदिति संचिन्त्य, स्वान्तः क्षमापोऽप्यबुद्ध्यत । अवोचत् सचिवस्याग्रे, स्वप्नवृत्तान्तमादितः॥१२॥ किं भावीति भयाच्छङ्काशतसङ्कुल-मानसः । आहूय विदुरान् मन्त्री, पप्रच्छ स्वप्नपाठकान् ॥१३॥