________________
शीलवती :
कथा
॥ ११ ॥
CXCXCXCXCXCXCXCX
तं बोधयामास, जिनधर्मोपदेशतः ॥१०॥ परदारानिवृत्तिं च, कारिता नर्ममंत्रिणः । सत्कृत्य प्रेषिता राज्ञा, सती स्वगृहमासदत् ॥११॥ विशिष्याजितसेनोऽपि, राजकार्यधुरंधरः । शीलवत्या समं धर्म-सारं कालमवायत् ॥१२॥ तत्रागतश्चतुर्ज्ञानी, दमघोषाभिधो मुनिः। ययावजितसेनोऽपि, तं तुं वल्लभायुतः ॥१३॥ देशनांते मुनिः शील-वती भाषितवान् गुरुः । भद्रे ! पूर्वभवाभ्यासाद्, भाति ते. शीलमुज्ज्वलम् ॥१४॥ कथमजितसेनेन, पृष्टः प्राञ्जलिना गुरुः । ऊचे कुशपुरे स्थाने, श्रावकः सुलसाभिधः ॥१५॥ तद्भार्या सुयशा०॥ ११ ॥ गेहे, तयोर्दुर्गतनामकः । प्रकृत्या भद्रको भृत्यस्तद्भार्या दुर्गिला. पुनः ॥१६॥ साधं सुयशसान्येयुः, यतिनीवसतिं ययौ । दुर्गिला स्वामिनी वीक्ष्य, पुस्तकार्चनसादराम् ॥१७॥ आर्ये ! किमय पर्वेति, सा पप्रच्छ प्रवर्तिनीम् । तयोचेऽद्य श्रुततिथि-विख्याता श्वेतपञ्चमी ॥१८॥ य इह श्वेतपंचम्या-मुपवासपरायणः । पुस्तकाभ्यर्चनपूर्व, कुर्यात् ज्ञानप्रभावनाम् ।।१९।। स प्रेत्य सुखसौभाग्यभाग्यबुद्ध्यादि वैभवम् । ॐ प्राप्य क्रमेण निर्वाणं, लभते शुद्धशीलयुक् ॥२०॥ युग्मम् ॥ श्रुत्वेति दुर्गिला प्राह, धन्यासौ स्वामिनी मम । निंद्या तु मादृशी यत्र,* स्वहितं कर्तुमक्षमा ॥२शा प्रवर्तिन्याह चेद्दान-तपसी ते न गोचरे । तत् स्वाधीनं भावसारं, शीलं त्वमपि पालय ॥२२॥ विधेहि परपुंत्यागं, यावज्जीवं विवेकिनि ! । तथाष्टमीचतुर्दश्योः , स्वभर्तुरपि वर्जनम् ।।२३।। गृहीत्वाभिग्रहं हृष्टा, सापि पत्युरभाषत । कर्मलाघवतः* सोऽपि, तमाद्रियत भावतः ॥२४॥ क्रमेण प्रापतुस्तौ च, सम्यक्त्वं भावशुद्धितः । दुर्गिलापि क्रमाज्ज्ञान-पञ्चम्या विदधे तपः ॥२५॥ कालधर्म गतौ जाती, सौधर्मे त्रिदशावुभौ । भवानजितसेनोऽपि, दुर्गजीवस्ततश्च्युतः ॥२६॥ जातश्च दुर्गिलाजीवः, सैषा शीलवती ॐ सती । ज्ञानाराधनपुण्येन, विशिष्टबुद्धिवैभवाः ॥२७॥ जातिस्मृत्या ततः सर्व, स्वयमेव विबुध्य ते । परं वैराग्यमापन्नौ, जगृहाते व्रतं द्रुतम् ॥२८॥ प्रपाल्य चारित्रधुरं चिराय, तौ प्रापतुः पंचमदेवलोकम् । ततश्च्युतौ केवलमाप्य सिद्धिं, ब्रजिष्यतो निर्मलशीलयोगात् ॥२९॥ यत:-कारण बंभचेरं, धरंति भब्वा उ जेण सुद्धमणा । कप्पंमि बंभलोए, ताणं नियमेण उववाओ ॥३०॥
॥ इतिशीले शीलवतीकथानकम्॥