SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ AKASGANGA दते त्रयोऽपि कुमारत्वे प्रव्रजिताः, सुकुमालिकाऽतिरूपतया न भिक्षाद्यर्थ गन्तुं शक्नोति,तरुणाः पृष्ठत आगच्छन्ति,तन्निमित्त- खीस्पर्शमुपाश्रयेऽप्यागच्छन्ति,गणिन्या गुरोः कथित,तदा गुरुणा स्वभ्रातरौ रक्षार्थ भिन्नोपाश्रये तत्पार्थे मुक्तौ, तौ सहस्रयोधिनी,18 | वर्जनम् |तयोरेको भिक्षां हिण्डति अन्यस्तां रक्षति, एवं बहुकाले गते सति साधुपीडां दृष्ट्वा तयाऽनशनं कृतं, बहुभिर्दिनैः क्षीणात गा. ८५ है मूछों गता, मृतेतिकृत्वा एकेन सा गृहीता, द्वितीयेन तस्या उपकरणं गृहीतं, सा मागें शीतलवातेन गतमूर्छा भ्रातृस्पर्शन सवेदा जाता, तथाऽपि मौनेन स्थिता, ताभ्यां परिष्ठापिता, तयोर्गतयोः सा. उत्थिता, आसन्नं व्रजता सार्थवाहेन गृहीता, स्वमहिला कृता, कालेन भिक्षार्थमागताभ्यां भ्रातृभ्यां दृष्टा, ससंभ्रममुत्थिता दत्ता भिक्षा, तथाऽपि मुनी तां निरीक्षमाणौ तिष्ठतः, तयोः-किं निरीक्षेथः ?, तौ भणतः-अस्मद्भगिनी तव सरक्षाऽभूत् , किन्तु सा मृता, अन्यथा न प्रत्यय उत्पद्यते आवयोः, तयोक्तं-सत्यं जानीथः, अहमेव सा, तया सर्व पूर्वस्वरूपं कथितं, ताभ्यां सा वयःपरिणता सार्थवाहान्मोचिता दीक्षिता आलोच्य स्वर्गतेति ॥ ८४॥ किश्चहै जत्थित्थीकरफरिसंलिंगी अरिहावि सयमवि करिजातं निच्छयओ गोयम! जाणिज्जा मूलगुणभट्ठ॥८५॥ म जत्थित्थी०॥ यत्र गणे स्त्रीकरस्पर्श 'लिङ्गी' मुनिः, किंभूतः?-'अर्हन्नपि' पूजादियोग्योऽपि स्वयमपि कुर्यात् तं गच्छं निश्चयतो हे गौतम! जानीयात् 'मूलगुणभ्रष्टं' पञ्चमहाव्रतरहितमिति ॥ पाठान्तरे तु-"जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पन्ने । अरिहावि करिज सयं, तं गच्छं मूलगुणमुक्कं ॥" सुगमा ॥ अत्र श्रीमहानिशीथपञ्चमाध्ययनोक्तसावद्याचार्यस्य दृष्टान्तो ज्ञेय इति ॥ ८५॥ अथापवादमाह UUSAASASHISH SASSASSASSAX
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy