SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ उन्मार्गसन्मार्गगच्छवासफलंगा .२-७ वृत्ती श्रीगच्छा- ईशैर्नमस्थितं-नमस्कृतं 'महाभाग' विश्वविख्यातचतुस्त्रिंशन्महाऽतिशयविराजमानं अचिन्त्यशत्यन्वितं वा, गच्छस्यचारलंघु- है भावमुनिवृन्दस्याचारो-ज्ञानाचारादिः गणमर्यादारूपो वा तं गच्छाचारं 'किश्चित् स्वल्पमुद्धरामो वयं, श्रुतमेव द्वादशाङ्गीलक्षणमेव समुद्रः-सागरः श्रुतसागरस्तस्मात्-श्रुतसमुद्रात् ॥१॥ अथ प्रथमं तावदुन्मार्गस्थिते गच्छे वसतां फलं दर्शयति- . | अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्टिए । गच्छंमि संवसित्ताणं, भमई भवपरंपरं ॥२॥ oil अत्थे० ॥ अस्तीत्यव्ययं बहुवचनार्थे 'अस्ति' सन्ति विद्यन्त इत्यर्थः 'एके' केचित्-वैराग्यवन्तः 'प्राणिनो' जीवाः हे गौतम ! 'ये' जीवाः अज्ञानत्वेन पण्डितमन्यत्वेन च मार्गदूषणपूर्वकमुत्सूत्रप्ररूपणा यत्र स उन्मार्गः अथवा यत्र है पञ्चाश्रवप्रवृत्तिः स उन्मार्गस्तस्मिन् प्रतिष्ठिते-प्रकर्षेण स्थिते एवंविधे 'गच्छे' साध्वाभासगणे 'संवसित्ताणं' ति उषित्वा 'भ्रमन्ति' परिभ्रमणं कुर्वन्तीत्यर्थः, कां ?-भवस्य-चतुर्गतिलक्षणस्य परम्परा-परिपाटी तां भवपरम्पराम् ॥२॥ अथ | किश्चित्प्रमादवतामपि सन्मार्गस्थिते गच्छे वसतां गाथापञ्चकेन फलं दर्शयति जामद्ध-जाम-दिण पक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्टिए गच्छे, संवसमाणस्स गोयमा ! ॥३॥ लीला अलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खाइ अण्णेसिं, महाणुभागाण साहूणं ॥ ४॥ उज्जम सबथामेसु, घोरवीरतवाइयं । लज्जं संकं अइक्कम्म, तस्स विरियं समुच्छले ॥५॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा!। जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥६॥
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy