________________
श्रीगच्छाचारलघु
॥ १२ ॥
'वोलिही 'ति गमिष्यति 'काल:' समयादिलक्षणः, ते संविग्नपाक्षिकाः पूज्या विज्ञेया इति ॥ ३६ ॥ ये एवंविधा न | स्युस्तेषां स्वरूपमाह -
आणायकले के होहिंति गोयमा ! सूरी । जेसिं नामग्गहणेऽवि होइ नियमेण पच्छितं ॥ ३७ ॥ ती० ॥ अती 'कालेऽनागतकाले च 'केचित्' अनिर्दिष्टनामानोऽभूवन्निति शेषः 'होहिंति' भविष्यन्ति वर्त्तमानेऽपि काले सन्ति हे गौतम ! 'सूरयः' आचार्यपदनामधारकाः येषां परिचयकरणादिकं दूरे आस्तां 'नामग्रहणेऽपि' अमुकदेवदत्ताख्यसूरिरित्यपि कथ्यमाने भवति निश्चयेन प्रायश्चित्तमिति, तथा चोक्तं श्रीमहानिशीथपञ्चमाध्ययने- "इत्थं | चायरियाणं पणपण्णं होंति कोडिलक्खाओ । कोडिसहस्से कोडीसए य तह एत्तिए चेव ५५५५५५०००००००० ॥ १ ॥ एतसिं मज्झाओ एगे न बुड्डेइ गुणगणाईण ॥” इति ॥ ३७ ॥ जओ-सइरीभवंति अणविक्खयाड़ जह भिचवाहणा लोए । पडिपुच्छाहिं चोयण तम्हा उ गुरू सया भयइ ॥ ३८ ॥ जओ - स० ॥ जओत्ति भिन्नपदं यतो भणितं- 'सरी' त्ति स्वेच्छाचारिणो भवन्ति 'अणविक्खयाइ'त्ति शिक्षारहितत्वेन यथा मृत्यवाहनादयः, तत्र भृत्याः - सेवकाः वाहनानि - हस्त्यश्ववृषभमहिषादीनि लोके, तथा विनेयाः गुरूणां कार्य २ प्रति पृच्छाः प्रतिपृच्छास्ताभिः प्रतिपृच्छाभिः 'चोयणेति प्राकृतत्वाद्विभक्तिपरिणामः चोदनादिभिश्च विनेति गम्यं स्वेच्छाचारिणो भवन्तीत्यर्थः, यस्मात्स्वेच्छाचारिणो भवन्ति तस्मात्प्रतिपृच्छादिभिराचार्यो विनेयानां तुशब्दान्महत्तरा स्वशिष्यणीनां 'सदा' सर्वकालं 'भय'त्ति धातूनामनेकार्थत्वात् 'सत्यापयति' शिक्षां ददातीत्यर्थः ॥ ३८ ॥ किञ्च -
नामाचार्याः शिक्षावश्यकता
गा. ३७-८
१५
२०
२५
॥ १२ ॥
२०