________________
श्रीगच्छाचारलघुवृत्तौ
अधमाचायेस्वरूपं 'गा.२३-४
RECORREARS
॥८
॥
नो पर्यागलच्छ्रोताः पद्मदवत् , पद्महदे तु जलं निर्गच्छति न त्वागच्छति २ तथा परो नो परिगलत्श्रोताः पर्यागलत्श्रोताच, लवणोदधिवत् , लवणे आगच्छति जलं न तु निर्गच्छति ३ अपरस्तु नो परिगलत्श्रोता नो पर्यागलश्रोताच, मनुष्यलोकादहिः समुद्रवत्, तत्र नागच्छति न च निगच्छति ४ । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् १ साम्परायिककमोपेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावः कायोत्सर्गादिना क्षपणापत्तेश्च, साम्परायिककर्म तु कषायकर्म २ आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाः अप्रतिश्रावित्वात् ३ कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात् ४ । यद्वा केवलं श्रुतमाश्रित्य धर्मभेदेन भङ्गा योज्यन्ते, तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः १ द्वितीयभङ्गपतितास्तु तीर्थकृत् २ तृतीयभङ्गकास्त्वाहालन्दिकाः, तेषां च कचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात् ३ प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः ४, कथं ?, सम्यक्-सर्वप्रकारेण, तथा समा-अविपरीता पासीति-दृष्टिदर्शनमवलोकनं यस्यासौ समदृष्टिर्भवति, व?-'सर्वकार्येषु' आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः 'स' पूर्वोक्त आचार्यः 'रक्षति' धत्ते कुमार्गे पतितमिति शेषः, कं?| 'गच्छं' गणं, किंभूतं ?-सबालाश्च ते वृद्धाश्च सवालवृद्धास्तैराकुलः-सङ्कीर्णस्तं सबालवृद्धाकुलं, किमिव !, चक्षुरिव, यथा चक्षुर्गादौ पतन्तं जन्तुगणं धत्ते तथाऽयमिति ॥ २२॥ अथाधमाचार्यस्वरूपं गाथाद्वयेनाह
सीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोएण णिस्सारो॥२३॥ कुलगामनगररजं पयहिय जो तेसु कुणइ हु ममत्तं । सो नवरि लिंगधारी संजमजोएण निस्सारो॥२४॥
25