SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छाचारलघु- वृत्ती SARGICARRACHAR तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति ३, इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य आलोचक्वचिदपराधे या शुद्धिः प्रदत्ता तां तथैवावधार्य सोऽपि शिष्यस्तथैवापराधे प्रयुङ्क्ते तदाऽसौ धारणाव्यवहारः, उद्धृतपद-नादृष्टान्तः धरणरूपा वा, कश्चित्साधुर्गच्छोपकारी अप्यशेषच्छेदग्रन्थयोग्यो न भवति गुरुस्तस्योद्धृतपदानि ददाति, तेषां पदानां आचार्यकधरणं धारणाव्यवहारः ४, द्रव्यादि विचिन्त्य संहननादीनां हानिं ज्ञात्वा चोचितेन केनचित्तपःप्रकारेण यां गीतार्थाः त्यं गा. शुद्धिं दिशन्ति तत्समयभाषया जीतमुच्यते, यद्वा यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे सूत्रातिरिक्तं कारणतः प्रवर्तितं । १३-१४ अन्यैश्च बहुभिरनुवर्तितं तत्तत्र रूढं जीतमुच्यते, तदेवमेतेषां पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव । प्रायश्चित्तप्रदाने गीतार्थो गुरुरधिक्रियते न चागीतार्थोऽनेकदोषसम्भवादिति, अपिशब्दादनेकमव्यानां विधिना दत्तालो-8 चनस्तेनापीति ॥ १२॥ अथालोचनायां दृष्टान्तमाहजह सुकुसलोऽवि विजो अण्णस्स कहेइ अत्तणो वाहिं । विजुवएसं सुच्चा पच्छा सो कम्ममायरइ ॥ १३ ॥ जहसु०॥ यथा सुष्टु कुशलोऽपि-भिषक्शास्त्रे निपुणोऽपि, अपिशब्दाद्वयःप्राप्तोऽपि, 'वैद्यः' चिकित्साकर्ता 'आत्मनः || स्वस्य 'व्याधिं रोगोत्पत्तिं 'अन्यस्य परवैद्यस्य 'कथयति' यथास्थितं निरूपयति, 'वैद्योपदेशं वैद्यनिरूपितं 'श्रुत्वा'। आकर्ण्य 'पश्चात्' परवैद्यकथनानन्ततरं सः-वैद्यस्तद्वैद्योक्तं 'कर्म' प्रतीकाररूपं 'आचरति' करोतीत्यर्थः, एवमालोचनास्वरूपज्ञाता आलोचकोऽपि सद्गुरूक्तं तपो यथाऽर्पितं करोतीति ॥ १३ ॥ अथाचार्यकृत्यं किञ्चिदाह देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई १४ ॥
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy