________________
विविध पूजन संग्रह
॥ ६३ ॥
Jain Education International
व्योमोर्ध्वाधोरयुक्तं शिरसि च विलसन् नादबिन्द्वर्धचन्द्रं, स्वाहान्तोंकारपूर्वेर्गुरुभिरभिवृतं सस्वरं चाष्टवर्गम् ॥ अन्तस्थानाहतश्रीगणधरवलयालङ्कृतं ध्यानसाध्यं वन्दे श्रीसिद्धचक्रं सुरगणमहितं मायया त्रिः परीम् ॥७॥ यत् सर्वाङ्गिहितं मनुष्यमहितं सौख्यालयं धर्मिणां यद्दोषः परिवर्जितं सुगदितं ध्यानाधिरूढाङ्कितम् । यत् कर्मक्षयकारकं सुधवलं मन्त्राधिपाधिष्ठितं तन्नः पातु वरं भवाब्धिशमनं श्रीसिद्धचक्रं सदा ॥८॥ ॥ इति श्रीसिद्धचक्रनमस्कारस्तोत्रम् ॥ पछी आरति मंगलदेवो उतारी, शान्तिकलश करे-भरे-शान्तिदंडक भणवापूर्वक । ॥ अथ शान्तिदण्डक ॥
नवकार महामंत्र
ॐ ह्रीँ ब्रह्मरुचिब्रह्मबीजभूताय परमार्हते नमो नमः । ॐ पञ्चरुक् ह्रीँकारस्थ, श्रीऋषभादिजिनकदम्बाय नमो नमः। ॐ धवलनिर्मलमूलानाहतरूपाय त्रिकालगोचरानन्तद्रव्यगुणपर्यायात्मकवस्तुपरिच्छेदक-जिन-प्रवचनाय नमो नमः । ॐ सिद्धचक्रमूलमन्त्राराध्यपदाधाररूपाय श्रीसङ्घाय नमो नमः । ॐ अर्हद्भ्यो नमः । ॐ सिद्धेभ्यो नमः । ॐ सूरिभ्यो नमः । ॐ उपाध्यायेभ्यो नमः । ॐ सर्वसाधुभ्यो नमः । ॐ सम्यग्दर्शनाय नमः । ॐ सम्यग्ज्ञानाय नमः । ॐ सम्यक्चारित्राय नमः । ॐ सम्यक्तपसे नमः । ॐ स्वरेभ्यो नमः । ॐ वर्गेभ्यो नमः । ॐ सर्वानाहतेभ्यो नमः । ॐ सर्वलब्धिपदेभ्यो नमः । ॐ अष्टविधगुरुपादुकाभ्यो नमः । ॐ पुण्याहं पुण्याहं
For Personal & Private Use Only
श्री सिद्धचक्र पूजन विधि
॥ ६३ ॥
www.jainelibrary.org