________________
विविध पूजन संग्रह
॥ ६४ ॥
प्रीयन्ताम् प्रीयन्ताम् । अर्हदादयो भगवन्तो मयि प्रसन्ना भवन्तु भवन्तु । श्रीसिद्धचक्राधिष्टायकदेवा देव्यो नागयक्ष-गण-गन्धर्व-वीरग्रहलोकपालाश्च सानुकूला भवन्तु भवन्तु । समस्तसाधु-साध्वी-श्रावक-श्राविकाणांराजा ऽमात्य-पुरोहितसामन्त-श्रेष्ठि सार्थवाहप्रभृति-समग्रलोकानां च स्वस्ति-शिव-शान्ति-तुष्टि-पुष्टि-श्रेयः-समृद्धिवृद्धयो भवन्तु । चौरारि-मारि-रोगोत्पातानीति-दुर्भिक्ष-डमर-विग्रह-ग्रह-भूत-प्रेत-पिशाच-मुद्गलशाकिनीप्रभृतिदोषाः प्रशाम्यन्तु । प्रशाम्यन्तु । राजा विजयी भवतु भवतु । प्रजास्वास्थ्यं भवतु भवतु । श्रीसङ्घो विजयी भवतु भवतु । ॐ स्वाहा ॐ स्वाहा । भूः स्वाहा । भूवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहाः । शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥१॥ सर्व मंगल मांगल्यं, सर्व कल्याणकारणम् । प्रधानं सर्व धर्माणां, जैनं जयति शासनम् ॥२॥
॥ इति शान्तिदण्डकः ॥ ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनश्च यत् कृतम् । तत् सर्वं कृपया देवाः ! क्षमन्तु परमेश्वराः ॥१॥ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ॥२॥ इत्यपराधक्षामणम् । त्रण खमासमण देवापूर्वक अपराधक्षामण करवू ।
॥ अथ विसर्जनम् ॥ श्रीसिद्धचक्राधिष्ठायकदेवा देव्यश्च स्वस्थानाय गच्छन्तु गच्छन्तु पुनरागमनाय प्रसीदन्तु प्रसीदन्तु स्वाहा । (इति विसर्जनम्)
॥ इति श्रीसिद्धचक्रयन्त्रोद्धार पूजनविधिः ॥
श्री सिद्धचक्र पूजन विधि
॥ ६४ ॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org