________________
विविध पूजन संग्रह
॥ ६२ ॥
॥ अथ सिद्धचक्रस्तोत्रम् ॥ ऊर्ध्वाधोरयुतं सबिन्दु सकलं ब्रह्म स्वरावेष्टितं, वर्गापूरितमष्टपत्रममलं, सत्सन्धितत्त्वार्पितम् । अन्तः पत्रतटेष्वनाहतपदं, ह्रीकारसंवेष्टितं, देवं ध्यायति यः पुमान् स भवति, वैरीभकण्ठीरवः ॥१॥ यद्वर्गाष्टकपूरितं वरदलं, सानाहतं नीरजं, यच्चौंकारकलापबिन्दुकलितं, मध्ये त्रिरेखाञ्चितम् । यत्सर्वार्थकरं परं गुणवतां, कालत्रये वर्तिनां, तत् क्लेशौघविनाशनं भवतु नः, श्रीसिद्धचक्रेश्वरम् ॥२॥ शब्दब्रह्मैकलीनं प्रबलबलयुतं सर्वतत्त्वप्रभावं, सानन्दं सर्वभद्रं गणधरवलयं दुःखपाशप्रणाशम् ॥ यन्नैमित्तं वरिष्ठं विपदि हृदि धृतं सज्जनानां च नित्यं, तद् दत्तं यस्य बाहौ रिपुकुलमथनं सिद्धचक्रं नमामि ॥३॥ यच्छुद्धं व्योमबीजं ह्यध उपरियुतं रा( या )न्तसिद्धाक्षरेण, यत्सन्धौ तत्त्वयुक्तं स्वरपरमपदैर्वेष्टितं मध्यबीजम् ॥ यत् सीमन्तं निरन्तं विगतकलिमलं मायया वेष्टिताङ्गं, जीयात् तत् सिद्धचक्रं विमलवरगुणं देव-नागेन्द्रवन्धम् ॥४॥ यद् वश्यादिककारकं बहुविधं, कामार्थिनां कामदं, यलक्षाधिकजापसिद्धविमलं, सत्सम्पदा दायकम् ॥ . यत् कुष्ठादिकदुष्टदोषदलनं, दुःखाभिभूतात्मनां, यत् तत्त्वैकफलप्रदं विजयतां श्रीसिद्धचक्रं भुवि ॥५॥ ऊध्वोधोरेफयुक्तं गगनमुपहतं बिन्दुनाऽनाहतेन, ह्रींकारेण प्रकृष्टं स्वरसुगुरुपदैर्वेष्टितं बाह्यदेशे ॥ पद्मं वर्गाष्टकाढू दलमुखविवरेऽनाहताढ्यं तदित्थं, ह्रींकारेण त्रिवेष्टं कलशवलयितं सिद्धिदं सिद्धचक्रम् ॥६॥
श्री सिद्धचक्र पूजन विधि
॥६२॥
For Personal Price
Only