________________
विविध पूजन संग्रह
॥ ५१ ॥
(२) कुम्भाः काञ्चनरत्नराजतमयाः, स्त्रक्चन्दनैश्चर्चिताः कर्पूरागरुगन्धबन्धुरतराः, क्षीरोदनीरोदयाः । भव्यैः स्नात्रकृते जिनस्य पुरतो, राजन्ति राजीकृताः सार्वाः स्वीयशुभर्द्धिसङ्गममये, माङ्गल्यकुम्भा इव ॥२॥
(३) श्रेणीभूय समुत्थिताः करधृतैः, कुम्भैर्हदने मुदा, भव्या भान्ति जिनस्य मज्जनकृते, पौरन्दर श्रीजुषः । संसारौघमिवोत्तरीतुमनसौ-ऽहंदैवते मानस-प्रासादे कलशाधिरोपमिव वा, ते कर्तुकामा इव ॥३॥
(४) गीतातोद्योरुनादैः सरभसममरारब्धनाट्यप्रबन्धे, नानातीर्थोदकुम्भै रजतमणिमयैः शातकुम्भर्जिनः प्राक् । मेरोः शृङ्गे यथेन्द्रैः सजयजयरवैर्मज्जितो जन्मकाले, कल्याणीभक्तयस्तं विधिवदिह तथा भाविनो मज्जयन्तु ॥४॥
(५) जैने स्नात्रविधौ विधूतकलुषे, विश्वत्रयीपावने, क्षुद्रोपद्रवविद्रवप्रणयिनां, ध्यातं त्वतिप्राणिनाम् । श्रीसले सुजने जने जनपदे, धर्मक्रियाकर्मठे, देवाः श्रीजिनपक्षपोषपटवः, कुर्वन्तु शान्तिं सदा ॥५॥
श्री सिद्धचक्र पूजन विधि
॥५१॥
Jain Education n
ational
For Personal & Private Use Only
www.ininelibrary.org