________________
श्री अष्टोत्तरी व शान्तिस्नानादि विधि
॥५१॥
स्वस्ति भूगगननागविष्टपे-घूदितं जिनवरोदये क्षणात् । स्वस्तिकं तदनुमानतो जिन-स्याग्रतो बुधजनैर्विलिख्यते ॥१॥ अन्तः परमज्ञानं यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात्, प्रकटीभूतं बहिर्वन्दे ॥२॥ विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ॥३॥ जिनेन्द्रपादैः परिपूज्य पुष्टै-रतिप्रभावैरतिसन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र-पुरो लिखेन्मङ्गलसत्सयोगम् ॥४। त्वत्सेवकानां जिननाथ ! दिक्षु, सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्या-वर्तः सतां वर्तयतां सुखानि ॥५॥
श्री अष्टोत्तरी व शान्तिस्नात्रादि
विधि
॥५१॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org