________________
श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि
॥ ३३ ॥
Jain Education International
जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात् ! पुष्पैर्विलेपनैर्धूपै-र्नैवेद्यस्तुष्टिहेतवे ।२। पद्मप्रभस्य मार्तण्ड-श्चन्द्रश्चन्द्रप्रभस्य च । वासुपूज्यस्य भूपुत्रो, 'बुधस्याष्टौ जिनेश्वराः ।३। विमलानन्तधर्माराः, शान्ति कुन्थुर्नमिस्तथा । वर्धमानस्तथैतेषां पादपद्मे बुधं न्यसेत् ॥४। ऋषभभाजितसुपार्श्वाश्चाभिनन्दनशीतलौ । सुमतिः सम्भवस्वामी, श्रेयांसश्चैषु गीष्पतिः ।५। सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्वरः । नेमिनाथे भवेद्राहुः, केतुः श्रीमल्लिपार्श्वयोः ।६ । 'जन्मलग्ने च राशौच, पीडयन्ति यदा ग्रहाः तदा सम्पूजयेद् धीमान्, खेचरैः सहितान् जिनान् ॥७॥ ॐ आदित्यसोममङ्गलबुधगुरुशुक्राः शनैश्चरो राहुः केतुप्रमुखाः खेटा, जिनपतिपुरतोऽवतिष्ठन्तु ॥८। पुष्पगन्धादिर्भिधूपैर्नैवेद्यैः फलसंयुतैः । वर्णसदृशदानैश्च, वस्त्रैश्च दक्षिणान्वितैः ॥९॥ ए प्रमाणे कही पंचवर्ण की कुसुमांजलि उछाळवी ।
१. बुधोऽप्यष्टजिनेषु च ॥ २. वर्धमानो जिनेन्द्राणां ॥ ३. श्रेयांसश्च बृहस्पतिः ॥ ४. नेमिनाथो भवद्राहोः ॥ ६. जनान्लग्ने च राशौ च यदा पीडन्ति खेचराः ॥
For Personal & Private Use Only
श्री
अष्टोत्तरी व शान्तिस्नात्रादि विधि
॥ ३३ ॥
www.jainelibrary.org