SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ १७ ॥ अस्य प्रभावतो घोरं, विषं च विषमज्वरम् । दुष्टं कुष्टं क्षयं क्षिप्रं, प्रशाम्यति न संशयः ॥५॥ तावद् विपन्नदी घोरा, दुस्तरा यावदङ्गिभिः । नाप्यते सिद्धचक्रस्य, प्रसादविशदा तरी ॥६॥ बद्धा रुद्धा नरास्तावत् तिष्ठन्ति क्लेशवर्तिनः । यावत् स्मरन्ति नो सिद्ध-चक्रस्य विहितादराः ॥७॥ एतत्तपोविधायिन्यो योषितोऽपि विशेषतः । वन्ध्या-निन्द्वादिदोषाणां, प्रयच्छन्ति जलाञ्जलिम् ॥८॥ वैकल्यं बालवैधव्यं, दुर्भगत्वं कुरूपताम् । दुर्भगत्वं च दासीत्वं, लभन्ते न कदाचन ॥९॥ यद्यदेवाभिवाञ्छन्ति, जन्तवो भक्तिशालिनः । तत्तदेवाप्नुवन्ति श्री-सिद्धचक्रार्चनोद्यताः ॥१०॥ एतदाराधनात् सम्य-गाराद्धं जिनशासनम् । यतः शासनसर्वस्व-मेतदेव निगद्यते ॥११॥ एभ्यो नवपदेभ्योऽन्य-नास्ति तत्त्वं जिनागमे । ततो नवपदी ज्ञेया, सदा ध्येया च धीधनैः ॥१२॥ ये सिद्धा ये च सेत्स्यन्ति, ये च सिध्यन्ति साम्प्रतम् । ते सर्वेऽपि समाराध्य, पदान्येतान्यहर्निशम् ॥१३॥ त्रिधा शुद्ध्या समाराध्य, मे (चै)षामेकतरं पदम् । भूयांसोऽपि भवन्ति स्म, पदं राज्यादिसम्पदाम् ॥१४॥ अस्याद्यपदमाराध्य, प्राप्ताः स्वामित्वमुत्तमम् । नरेषु देवपालाद्याः, कार्तिकाद्याः सुरेषु च ॥१५॥ द्वितीयपदमाराध्य, ध्यायन्तः पञ्चपाण्डवाः । सिद्धाचले समं कुन्त्या, संप्राप्ताः परमं पदम् ॥१६॥ श्री सिद्धचक्र पूजन विधि ॥१७॥ Jain E cation in For Personal Price Use Only
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy