________________
विविध
पूजन संग्रह
।। १६ ।।
Jain Education Internat
मुख्येन्द्रोऽपि समादाय, पीठान्नवसराः स्रजः । तपः कर्तृपुरो भूत्वा प्राह प्राञ्जलिरीदृशम् ॥१९॥ धन्याश्च कृतपुण्याश्च, यूयं यैर्विहितं तपः । एतत्तपःप्रभावाच्च, भूयाद् वो वाञ्छितं फलम् ॥२०॥ एवमुच्चैःस्वरं जल्प-न्ननल्पाकल्पधारिणाम् । तपोविधातृबन्धूनां, करे यच्छति मालिकाः ॥२१॥ ते चार्हन्तं नमस्कृत्य, सानन्दं स्वकरैः स्त्रजः । स्वस्वसम्बन्धिनां कण्ठे, क्षिपन्ति समहोत्सवम् ॥२२॥ ततश्चेन्द्रेण पीठाग्रे, कृते मङ्गलदीपके । शक्रस्तवादिकं कृत्वा, श्रोतव्या गुरुदेशना ॥२३॥ गीतनृत्यादिकं कृत्वा, दत्त्वा दानं स्वशक्तितः । सोत्सवं च गृहे गत्वा, कार्यं संघार्चनादिकम् ॥२४॥ ॥ इति श्रीसिद्धचक्रतपोविधानोद्यापनचतुर्विंशतिका ॥२॥
चोवीशी त्रीजी ।
एवं श्रीसिद्धचक्रस्या- राधको विधिसाधकः । सिद्धाख्योऽसौ महामन्त्र - यन्त्रः प्राप्नोति वाञ्छितम् ॥१॥ धनार्थी धनमाप्नोति, पदार्थी लमते पदम् । भार्यार्थी लभते भार्यां पुत्रार्थी लभते सुतान् ॥२॥ सौभाग्यार्थी च सौभाग्यं, गौरवार्थी च गौरवम् । राज्यार्थी च महाराज्यं, लभतेऽस्यैव तुष्टितः ॥३॥ एतत्तपोविधातारः, पुमांस स्युर्महर्द्धयः । सुर-खेचर-राजानो, रूपसौभाग्यशालिनः ॥४॥
For Personal & Private Use Only
श्री सिद्धचक्र पूजन विधि
॥ १६ ॥
www.jainelibrary.org