SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ १५ ॥ मण्डलं सिद्धचक्रस्य, चैत्यादौ शुद्धभूतले । सन्मन्त्रपूतैः पञ्चाभ-धान्यैरालिख्यते स्फुटम् ॥७॥ तत्राहमिति बीजोर्ध्व-स्थापितप्रतिमाऽग्रतः । स्थाप्यं सन्ना लिकेरस्य, सखण्डाज्योरुगोलकम् ॥८॥ सिद्धाद्यष्टदलश्रेणि-रपि पूज्या च गोलकैः । शर्करालिङ्गकैरा, षोडशानाहतावली ॥९॥ द्राक्षाश्चैकोनपञ्चाश-दष्ट वर्गाक्षरोपरि । बीजपूराष्टकं सप्ता-क्षरमन्त्रेषु मण्डयेत् ॥१०॥ खारिकाख्यफलान्यष्ट -चत्वारिंशत्सु लब्धिषु । जयादिषु च जंभीरी-फलान्यष्टौ तु योजयेत् ॥११॥ गुर्वादिपादुकास्वष्टौ, दाडिमीनां फलानि च । चक्राधिष्ठायके चैकं, न्यसेत् कुष्माण्डमुत्तमम् ॥१२॥ यक्षादिषु चतुःषष्टि-पदेषु क्रमुकावलिम् । नवाक्षोटफलानीह, निधिस्थानेषु कल्पयेत् ॥१३॥ ग्रहेभ्यो ग्रहवर्णानि, फलानीहोपढौकयेत् । चतुर्यों द्वारपालेभ्यो, बलिकूटाँश्च पीतभान् ॥१४॥ वीरेभ्यस्तिलवर्तेश्च, देयं कूटचतुष्टयम् । दिक्पालेभ्यश्च तद्वर्ण-बलिपिण्डफलादिकम् ॥१५॥ ह्रींकारकलशाकारा, रेखा भूमण्डलस्य च । धान्येनैव विशुद्धेन, तत्तद्वर्णेन साधयेत् ॥१६॥ ततः श्रीसिद्धचक्रस्य, पटस्थप्रतिमादिषु । कृत्वा पञ्चामृतस्नात्रं, पूजां चैव सविस्तराम् ॥१७॥ सबृहवृत्तपाठं च, विहिते मण्डलार्चने । गुरौ तपोविधातृणां, कुर्वाणे चोपबृंहणाम् ॥१८॥ |श्री सिद्धचक्र पूजन विधि ॥१५॥ Jain Education international For Personal Private Use Only
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy