________________
विविध पूजन संग्रह
॥ १४ ॥
एक-द्वि-त्रि-चतुः-पञ्च-शतैरष्टोत्तरैः क्रमात् । स्याच्छिवास्याक्षिभूसङ्ख्य-वर्णजापो महाफलः ॥२३॥ दिक्कालासनमुद्रादि-विधिपीयूषसेकतः । श्रीसिद्धचक्रकल्पद्रुर्वाञ्छितं फलति ध्रुवम् ॥२४॥
॥ इति श्रीसिद्धचक्रयन्त्रोद्धारे विधिचतुर्विंशतिका समाप्ता ॥
चोवीशी बीजी। श्रीमते सिद्धचक्राद्य-बीजाय परमाईते । नत्वा तत्पूर्वसेवाया-स्तपोविधिरथोच्यते ॥१॥ | आश्विनस्य सिताष्टम्यां, निर्दोषायां यथाविधि । कृत्वा श्रीसिद्धचक्रार्चा-माद्याचाम्लो विधीयते ॥२॥ ततश्चाष्टाह्निकोत्सवं, कृत्वाऽऽशु नवमे दिने । कृते पञ्चामृतस्नात्रे ह्याचाम्लो नवमो भवेत् ॥३॥ एवं चैत्रे नवाचाम्ला, भवन्त्येव निरन्तराः । ततोऽर्धपञ्चवर्षेषु, सम्पूर्णं पूर्यते तपः ॥४॥ एकाशीतिर्भवत्येव-माचाम्लानामिहाथवा । अशक्तैरेकभक्ताना-मेकाशीतिर्विधीयते ॥५॥ इत्थं श्रीसिद्धचक्रस्य, तपः कृत्वा ह्युपासकैः । कार्यमुद्यापनं तस्य, यथाशक्त्या विवेकिभिः ॥६॥ १. शिवस्याक्षि-३ भू-१-१३ वर्णना मंत्रनो जाप १०८ । शिव-११ वर्णना मंत्रनो जाप-२०८ । शिवास्य ५ वर्णना मंत्रनो जाप ३०८ । शिवास्याक्षि-३ (अथवा अक्षि-२) वर्णना मंत्रनो जाप ४०८ । भू-१. वर्णना मंत्रनो जाप ५०८ ॥
श्री सिद्धचक्र पूजन विधि
॥१४॥
in Education
For Personal & Private Use Only
www.ininelibrary.org