SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ १३ ॥ ततश्च वलये विद्या-देव्यः षोडश निर्मलाः । दक्षिणेऽतो विभागे स्यु-श्चतुर्विंशतियक्षपाः ॥११॥ चतुर्विंशतियक्षिण्यो, वामपार्श्वे स्थिता वरम् । वीराश्च द्वारपालाश्च, चतुर्दिक्षु शिवङ्कराः ॥१२॥ इन्द्राद्या दशदिक्पाला, दशस्वपि दिशासु ते । राजन्ते यन्त्रमूले च, सूर्यादयो नव ग्रहाः ॥१३॥ नवापि निधयः कण्ठे, नैसर्पिकादयः स्थिताः । सन्तु प्रत्यूहनाशाय, दिक्पालाः सपरिच्छदाः ॥१४॥ इत्थं श्रीसिद्धचक्रं ये, सबीजे क्षोणिमण्डले । आराधयन्ति तेषां स्यु-वंशे सर्वार्थसिद्धयः ॥१५॥ एतदेव परं तत्त्वमेतदेव परं पदम् । एतदाराध्यमेतच्च, रहस्यं जिनशासने ॥१६॥ सुगन्धैः कुसुमैः शालि-तन्दुलैर्वाऽस्य साधकाः । शुचिशीला ध्रुवं सिद्धिं, लभन्ते लक्षजापतः ॥१७॥ सिद्धे चास्मिन् महामन्त्रे, देवो विमलवाहनः । अधिष्ठाताऽस्य चक्रस्य, पूरयत्येव वाञ्छितम् ॥१८॥ शान्तिके पौष्टिके शुक्लं, वश्ये चाकर्षणेऽरुणम् । पीतं स्तम्भेऽसितं द्वेष्ये, ध्येयमेतच्च साधकैः ॥१९॥ अर्हमात्मानमौअग्नि-शुद्धं मायाऽमृतप्लुतम् । सुधाकुम्भस्थमाकण्ठं, ध्यायेच्छान्तिककर्मणि ॥२०॥ आह्वानं स्थापनं चैव, सन्निधानं च रोधनम् । अर्चनं च विधायात्र, ततः कार्यं विसर्जनम् ॥२१॥ लेखनं पूजनं चैव, कुम्भकेनैव कारयेत् । आह्वानं पूर केणैव, रेचकेन विसर्जनम् ॥२२॥ श्री सिद्धचक्र पूजन विधि ॥१३॥ Jain Education n ational For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy