________________
विविध पूजन संग्रह
॥ १२ ॥
चोवीशी पहेली। 'ॐ ह्रौं अहँ नमः' स्मृत्वा, मूलमन्त्रमथार्हतः । वक्ष्ये श्रीसिद्धचक्रस्य, यन्त्रोद्धारं यथाविधि ॥१॥ पद्ममष्टदलाकार, कल्पयेत् तत्र कर्णिकाम् । ॐ हीं अनाहतैर्वृत्तम्, अहँ बीजं स्वरैर्वृतम् ॥२॥ सिद्धाः पूर्वदले स्थाप्या, दक्षिणे सूरयस्तथा । पाठकाः स्युः प्रतीचीने, साधवस्तूत्तरे दले ॥३॥ आग्नेय दर्शनं सम्यग्-ज्ञानश्च नैऋते दले । वायव्ये शुद्धचारित्र-मैशाने पल्लवे तपः ॥४॥ नवपदमिदं पद्म-मद्वितीयं जगत्त्रये । परीतोऽस्य दलानि स्युः, षोडशान्तरिते दले ॥५॥ अष्टौ स्वरादयो वर्गा, मन्त्रः सप्ताक्षरस्तथा । वर्गाः सानाहता ज्ञेया, मंत्रमूलं यतोऽक्षरम् ॥६॥ अष्टावनाहता स्थाप्या-स्तृतीये वलये क्रमात् । मध्येऽनाहतमष्टाढ्या-श्चत्वारिंशच्च लब्धयः ॥७॥ ह्रींकारेण त्रिरेखेण, वेष्टयेत् परितः समम् । क्रौंकारान्तमिदं ज्ञेयं, वेष्टनं सर्वरक्षणम् ॥८॥ परिधावस्य संस्थाप्या, अष्टौ गुर्वादिपादुकाः । आराध्योऽयं क्रमः पूर्णो, वक्ष्येऽथो यन्त्ररक्षकान् ॥९॥ स्थाप्या दिक्षु जयामुख्या, जम्भामुख्या विदिक्षु च । विमलवाहनाद्याः स्यु-देवताश्चक्ररक्षकाः ॥१०॥ १. शरूआतनां १३ श्लोको मूळ प्रतिनुं प्रथम पत्र अप्राप्त होवाथी त्रुटक हता, ते पूर्ति कर्या छे.
श्री सिद्धचक्र पूजन विधि
॥१२॥
For Personal
use only