SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ तिवृत्तिः १प्राभृते ८ प्राभृतप्राभृतं (मल.) ॥४१॥ परिक्षेपेण प्रज्ञप्तं, तथाहि-पूर्वमण्डलादस्य विष्कम्भे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततो यथोक्तमत्रायामविष्कम्भपरिमाणं भवति, तस्य च पृथक् परिरयपरिमाणं सप्तदश योजनानि अष्टात्रिंशच्च एकष|ष्टिभागा योजनस्य, एतन्निश्चयनयमतेन, परं सूत्रकृता व्यवहारनयमतमवलम्ब्य परिपूर्णान्यष्टादश योजनानि विवक्षितानि, व्यवहारनयमतेन हि लोके किश्चिदूनमपि परिपूर्ण विवक्ष्यते, तथा यदपि पूर्वमण्डलपरिरयपरिमाणे किञ्चिदूनत्वमुक्तं तदपि व्यवहारनयमतेन परिपूर्णमिव विवक्ष्यते, ततः पूर्वमण्डलपरिरयपरिमाणे अष्टादश योजनान्यधिकत्वेन प्रक्षिप्यन्ते इति भवति यथोक्तमधिकृतमण्डलपरिरयपरिमाणं, 'तया णं दिवसराई तहेव' इति तदा तृतीयमंडलचा रचरणकाले दिवसरात्री तथैव प्रागिव वक्तव्ये, तच्चैवम्-तया णं अट्ठारसमुहत्ते दिवसे भवति चउहिं एगहिभागमुहुसत्तेहि ऊणे दुवालसमुहुत्ता राई भवति चाहि एगहिभागमुहुत्तेहि अहिया, 'एवं खल्वि'त्यादि, एवं-उक्तप्रकारेण खलु है निश्चितमेतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सामन् सामन् एकैकस्मिन् मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्येवंपरिमाणां विष्कम्भवृद्धिमभिवर्द्धयन्नभिवर्द्धयन् एकैकस्मिन्नेतन्मण्डले अष्टादश अष्टादश योजनानि परिरयवृद्धिमभिवर्द्धयन्नभिवर्द्धयन् इहाष्टादश अष्टादशेति व्यवहारत उक्तं, निश्चयनयमतेन तु सप्तदश सप्तदश योजनानि अष्टात्रिंशतं चैकषष्टिभागा योजनस्येति द्रष्टव्यं, एतच्च प्रागेव भावितं, न चैतत्स्वमनीषिकाविजृम्भितं, यत उक्तं तद्विचारप्रक्रमे एव करणविभावनायां-'सत्तरस जोय-५ णाई अकृतीसं च एगट्ठिभागा १७३६ एयं निच्छएण संववहारेण पुण अट्ठारस जोयणाई' इति प्रथमषण्मासपर्य थवभवति चउहि एगडिभाक्रामन् सूर्यस्तदनन्तराम्त्यपरिमाणां वि नमेकैकमण्डलमोचन पश्चत्रिंशच्चैकषष्टिभागावमभिवर्द्धयन्नभि ॥४१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy