SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ पञ्चदश लक्षाणि एकाशीतिः सहस्राणि शतमेकमष्टात्रिंशदधिकं १५८११३८, शेषमुद्धरति षविंशतिर्लक्षाश्चतुर्विंशतिः | सहस्राणि नव शतानि षट्पञ्चाशदधिकानि छेदराशिरेकत्रिंशल्लक्षा द्वाषष्टिः सहस्राणि द्वे शते षट्सप्तत्यधिके ६९६९७४ एत|दपेक्षया योजनमेकं किञ्चिदूनं लभ्यते, तत उक्तं-"सयं च ऊयालं किंचिविसेसूण'मिति, 'ता लवणे णं समुद्दे इत्यादि सुगम, लवणसमुद्रे चत्वारः शशिन इत्यष्टाविंशतिनक्षत्राणि चतुर्भिर्गुण्यन्ते, ततो द्वादशोत्तरं नक्षत्राणां शतं || तत्र भवति, अष्टाशीतिश्च ग्रहाश्चतुर्भिर्गुण्यन्ते ततस्त्रीणि शतानि द्विपञ्चाशदधिकानि तेषां भवन्ति, ताराकोटीकोटीनां | पट्षष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि चतुर्भिर्गुण्यन्ते ततो यथोक्तं ताराप्रमाणं भवति, 'ता लवणं णं समुद्द'मित्यादि सकलमपि सुगम, नवरं परिधिगणितपरिभावना एवं कर्त्तव्या-जम्बूद्वीपस्य विष्कम्भे योजनलक्षं लवण-14 &स्योभयतो द्वे द्वे योजनलक्षे मिलिते इति ताश्चतस्रो लक्षाः धातकीखण्डस्योभयतश्चतस्रो २ लक्षा मिलिता अष्टौ सर्वसङ्ख्यया जातास्त्रयोदश लक्षाणि १३००००० ततोऽस्य राशेर्वों जात एककः पदो नवकः शून्यानि च दश १६९०००००००००० भूयो दशभिर्गुणने जातान्येकादश शून्यानि १६९००००००००००० एतेषां वर्गमूलानयने लब्धानि एकचत्वारिंशच्छतसहस्राणि दश सहस्राणि नव शतानि एकपश्यधिकानि ४११०९६१ नक्षत्रादिपरिमाणमप्यप्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वादशभिर्गुणयित्वा स्वयमानेतव्यं । 'ता धायइखंडण्ण'मित्यादि, एतदपि सकलं | सुगमं, 'ता कालोए णं समुद्देइत्यादि, एतदपि सुगम, नवरं परिक्षेपगणितभावना इयं-कालोदसमुद्रस्य एकतोऽपि चक्रवालतया विष्कम्भोऽष्टौ योजनलक्षा अपरतोऽपीति षोडश धातकीखण्डस्य एकतोऽपि चतस्रो लक्षा अपरतोऽपी-| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy