________________
|धिकानि, ततः सर्वसङ्ख्यामीलने भवन्ति द्वादश योजनसहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके । निर्व्याघाति&ामान्तरविषयं सूत्रं सुगम । 'ता चंदस्स णमित्यादि अग्रमहिषीविषयं सूत्रं सुगम, नवरमेकैकस्या देव्याश्चत्वारि देवीसह
माणि परिवार इति किमुक्कं भवति ?-एकैका अग्रमहिषी चतुर्णा चतुर्णा चन्द्रसत्कदेवीसहस्राणां पट्टराज्ञी, एकैका च सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आत्मसमानरूपाणि चत्वारि चत्वारि देवीसहस्राणि विकुर्वितुं, इह सिद्धान्तप्रसिद्धो विकुर्व इति धातुरस्ति, यस्य विकुर्वणा इति प्रयोगः, ततो विकुर्वितुमित्युक्तं, एवमेवेति एवमेव-उक्तप्रकारेणैव 'सपुत्वावरेणं'ति सह पूर्वेणेति सपूर्व सपूर्वं च अपरं च सपूर्वापरं | तेन सपूर्वापरेण-पूर्वापरमीलनेन स्वाभाविकानि षोडश देवीसहस्राणि चन्द्रदेवस्य भवन्ति, तथाहि-चतस्रोऽयमहिष्यः एकैका चात्मना सह चतुश्चतुर्देवीसहस्रपरिवारा ततः सर्वसङ्कलनेन भवति षोडश देवीसहस्राणि 'सेत्तं तुडिए' इति तदेतावत् चन्द्रदेवस्थ तुटिक-अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी-"तुटिकमन्तःपुरमिति" 'पभू णं चंदे'इत्यादि, ४ प्रश्नसूत्रं सुगमं, भगघानाह-'नो इणढे समढे'नायमर्थः समर्थः-उपपन्नो, न युक्तोऽयमर्थ इति भावः, यथा चन्द्रावतं
सके विमाने या सुधर्मा सभा तस्यामन्तःपुरेण सार्द्ध दिब्यान् भोगभोगान् भुञ्जानो विहरतीति, 'ता कहं ते नो पभू' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'ता चंदस्स ण'मित्यादि, चन्द्रावतंसके विमाने सुधर्मायां सभायां माणवको नाम चैत्यस्तम्भोऽस्ति, तस्मिंश्च माणवके स्तम्भे ये वज्रमयेषु सिक्ककेषु वज्रमया गोलाकारा वृत्ताः समुद्गकास्तेषु बहूनि जिन-18 | सक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओण'मित्यादि, तानि जिनसक्थीनि, इह सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात् , चन्द्रस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org